सत्यलोक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यलोकः, पुं, (सत्यो लोकः ।) सप्तलोकान्तर्गत- लोकविशेषः । यथा, -- “षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥” इति विष्णुपुराणे २ अंशे ७ अध्यायः ॥ जनलोकापेक्षयैव षड्गुणेन द्वादशकोट्युच्छ्रा- येण तपोलोकानन्तरं सत्यलोकः । न तु तपो- लोकात् षड्गुणेनेति मन्तव्यम् । तथा सत्यष्ट- चत्वारिंशत्कोट्युच्छ्रायत्वेन ब्रह्माण्डे तस्याव- काशाभावात् । सूर्य्याण्डगोलयोरन्तःकोट्यः स्युः पञ्चविंशतिरिति शुकोक्तेः । सत्यलोक एव कक्षा- भेदेन ब्रह्मधिष्ट्यात् परं वैकुण्ठलोकादि ज्ञेयम् । एवञ्च भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविं- शतिः कोट्यो भवन्ति । सत्यलोकादूर्द्ध्वञ्च पञ्च- दशलक्षोनकोटिद्वयादण्डकटाह इति ज्ञेयम् । अपुनर्मारकाः पुनर्म्मृत्युशून्याः । इति तट्टीका ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यलोक¦ पु॰ सत्यप्रचुरो लोकः। ऊर्द्ध्वस्थसप्तलोकमध्येसर्वोपरिस्थे तपोलोकादूर्द्ध्वस्थे लोके।
“षड्गुणेन तपोलोकात् सत्यलोको विराजते। अपुन-र्मारका यत्र ब्रह्मलोकाभिधः स्मृतः” विष्णुपु॰ अं
७ अ॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यलोक/ सत्य--लोक m. " world of truth " , N. of the highest of the 7 worlds BhP. Pan5car. etc.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--(Brahmaloka) the residence of ब्रह्मा see Satya; फलकम्:F1: भा. II. 5. ३९: XI. २४. १४: वा. 7. ३०: ६१. १७७:फलकम्:/F above Tapoloka. फलकम्:F2: Vi. II. 7. १५.फलकम्:/F
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
SATYALOKA : The world of Brahmā. (See under Brahmā)
_______________________________
*1st word in right half of page 707 (+offset) in original book.