सत्यव्रतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यव्रतः, पुं, (सत्यमेव व्रतं यस्य ।) त्रेतायुगे सूर्य्यवंशीयपञ्चविंशराजः । यथा, -- “त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः । तस्य सत्यव्रतो नाम तस्मात् सत्यरतः स्मृतः ॥” इति मात्स्ये १२ अध्यायः ॥ स च त्रिशङ्कु राजः । यथा, -- “त्रिधन्वनस्त्रय्यारुणन्त्रय्यारुणात् सत्यव्रतः । योऽसौ त्रिशङ्कुसंज्ञामवाप चाण्डालतामुपगतश्च द्वादशवार्षिक्यामनावृष्ट्यां विश्वामित्रस्य कल- त्रापत्यपोषणार्थे चाण्डालपरिग्रहपरिहरणार्थञ्च जाह्नवोतीरे न्यग्रोधे मृगमांसमनुदिनं वबन्ध । परितुष्तेन च विश्वामित्रेण सशरीरः स्वर्गं आरोपितः । त्रिशङ्कोर्हरिश्चन्द्रः ।” इतिविष्णु- पुराणे ४ अंशे २ अध्यायः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ६३ । ११७ । “जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ॥” महादेवः । इति महाभारतम् । १३ । १७ । १५० ॥ सत्यरूपव्रते, क्ली । यथा, रामायणे । २ । २६ । ३७ । “सा त्वं वसेह कल्याणि राज्ञः समनुवर्त्तिनी । भरतस्य रता धर्म्मे सत्यव्रतपरायणा ॥” सत्यव्रतविशिष्टे, त्रि । यथा, हरिवंशे । ३१ । ५८ । “एतेऽहि वंशजाः सर्व्वे राजानः कीर्त्तिता मया । सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥”)
