सत्रिजातकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्रिजातकम्, क्ली, (त्रिजातकेन सह वर्त्तमानम् ।) मांसव्यञ्जनविशेषः । यथा, -- “मांसं बहुघृते भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते । तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥” इति शब्दचन्द्रिका ॥
