सामग्री पर जाएँ

सदस्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सदस्यः, पुं, (सदसि साधुः । सदस् + यत् ।) विधिदर्शी । इत्यमरः ॥ न्यूनातिरिक्ततां विप- र्य्यासञ्च परिहर्त्तुं विधिं वेदोक्तयज्ञक्रियाकलार्प द्रष्टं शीलं येषां ते सदस्याः । सदसि साधवः कारका इतिविकारसंघेत्यादिना यः । इति भरतः ॥ तस्य नामान्तरं प्रश्नवक्ता । यथा, -- “एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः । तृतीयः प्रश्नकं ब्रूयात्ततः कर्म्म समाचरेत् ॥” कर्म्मनियुक्तः आचार्य्यः स च ब्रह्माङ्गके होम- कर्म्मणि ब्रह्मा । स्वयं होमाकरणे होतापि । स्वयं प्रधानकर्म्माकरणे प्रतिनिधिरपि । तन्त्र- धारकः पुस्तकधारकः । प्रश्नवक्ता सदस्यः । इति संस्कारतत्त्वम् ॥ * ॥ सभ्यः । यथा । सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः । सामाजिका इत्यादि हेमचन्द्रः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सदस्यः [sadasyḥ], [सदसि साधु वसति वा यत्]

Any person present at or belonging to an assembly, a member of an assembly (an assessor, a juror &c.); सदस्याग्न्यार्हणार्हं वै विमृशन्तः सभासदः Bhāg.1.74.18.

An assistant at a sacrifice, a superintending or assisting priest; ऋषी- णामार्त्विज्यं शरणद सदस्याः सुरगणाः Śiva-mahimna 21; सदस्यै- रनुज्ञातः Ś.3.

"https://sa.wiktionary.org/w/index.php?title=सदस्यः&oldid=387185" इत्यस्माद् प्रतिप्राप्तम्