सदस्यसम्भाषणम्:शिवपूजन चौरसिया
विषयः योज्यताम्रामायणरचयिता वाल्मीकेः परिचयं
[सम्पाद्यताम्]रामायणरचयिता वाल्मीकिः अन्यान्यकविभिः लिखितेषु अन्यान्यरामायणावृत्तिषु बहुजनप्रियं, बहुजनपठनयोग्यं वाल्मीकिरामायणमेव । अनेकासु संस्कृतीषु उपयुज्यमानेभ्यः रामायणावृत्तिभ्यः आधारभूतं वाल्मीकिरामायणमेव । एषा कृतिः पूर्णापूर्णेषु हस्तप्रतिषु उपलब्धा अस्ति । तासु कृतिषु अत्यन्तं प्राचीना एकादशशतके रचिता अस्ति । वाल्मीकिरामायणस्य प्रस्तुतहस्तप्रतिः उत्तरभारतस्य दक्षिणभारतस्य च कृतिद्वयं प्रादेशिकावृत्तिरुपेण उपलब्धमस्ति । वाल्मीकिरामायणे कथा रामस्य जन्मनः आरभ्य तस्य अवतारसमाप्तिपर्यन्तमपि भवति । वाल्मीकिरामयणं सप्तकाण्डेषु विभज्यते । बालकाण्डम् - रामस्य जननं, बाल्यं, वनवासात् पूर्वं विश्वामित्रर्षेः आज्ञया तेन सह राक्षससंहारार्थं वनगमनं, सीतास्वयंवरश्च - एताः घटनाः बालकाण्डे अन्तर्भवन्ति । अयोध्याकाण्डम् - अस्मिन् भागे कैकेय्या याचितयोः द्वयोः वरयोः मध्ये एकस्य वरस्य पूरणरूपेण रामस्य वनवासः भवति । दशरथः पुत्रशोकात् मरणं प्राप्नोति । अरण्यकाण्डम् - अस्मिन् भागे (काण्डे) वने रामस्य जीवनरीतिः, सीतापहरणं च चित्रितमस्ति । किष्किन्धाकाण्डम् - सीतामन्विष्यन् रामः किष्किन्धानामकं वानरसाम्राज्यं प्राप्नोति । तत्र सुग्रीवः हनुमान् इत्यादिभिः कपिभिः सह तस्य सख्यम् भवति । वानरसैन्यं सीतामन्वेष्टुं प्रवर्तते । सुन्दरकाण्डम्- अत्रहनुमद्विषये विवरणमस्ति । हनुमतः अपरं नाम सुन्दरः इति । तत्कारणात् अस्य काण्डस्य नाम सुन्दरकाण्डमित्यस्ति । एषः समुद्रोल्लङ्घनं कृत्वा (समुद्रमुल्लङ्घ्य) लङ्कां प्रविशति । सीता रावणराज्ये लङ्कायाम् अशोकवने अस्ति इति ज्ञात्वा रामाय विषयं निवेदयति । युद्धकाण्डम्- अस्मिन् काण्डे रामरावणयोः युद्धस्य विवरणमस्ति । रावणसंहारानन्तरं रामः स्वजनैः सह अयोध्यामागच्छति । श्रीरामस्य राज्याभिषेकस्य विवरणमस्ति । उत्तरकाण्डम् -सीतारामौ वनवासानन्तरम् अयोध्यायां कथं जीवनं यापितवन्तौ इति चित्रितमस्ति । रजकस्य अवाच्यवचनकारणात् रामः सीतां परित्यजति वनं प्रेषयति च । कालान्तरे रामावतारपरिसमाप्तिपर्यन्तं कथा अनुवर्तते । वाल्मीकिरामायणस्य प्रथमान्तिमकाण्डयोः रचयिता वाल्मीकिः एव वा इति सन्देहः वर्तते । यतः अनयोः द्वयो काण्डयोः अवशिष्टानाम् अन्येषां पञ्चानां काण्डानां च लेखनशैली भिन्ना वर्तते, कथायां च विरोधाभासः अस्ति । तथापि एतौ द्वावपि काण्डौ रामायणस्य अविभाज्याङ्गौ इति तु सत्यमेव इति ज्ञानिनामभिप्रायः । रामस्य दैवांशत्वं, तस्य जन्म, रावणविषये दन्तकथाः ईदृशाः पौराणिकांशानां बहुभागाः अनयोः अध्याययोः एव द्र्ष्टुं शक्यन्ते । Shivpoojan chaurasiya १२:२५, १८ अगस्त २०१५ (UTC)
रामायणम्
[सम्पाद्यताम्]रामायणम् कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ चित्रम्:Ramayanam.pdf सपरिवारः श्रीरामः रामस्य अयनं (चरितं) रामायणम् । रामायणमादिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चिदितिहासग्रन्थो भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियश्च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च तत्र तत्र वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥ रामायणमादिकाव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते। तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति। तदा शोकाकुलः सः - 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः' इति व्याघ्रं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति। सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु। महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि·पू·पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति। रामायणे २४००० श्लोकाः सन्ति। रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते। पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना। रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता ज्ञाता भवति। वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन। संस्कृतसाहित्यनिर्माणे वाल्मिकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः। रामायणस्य उद्भवः एकस्मिन् दिने वाल्मीकिमहर्षिः सन्ध्यावन्दनार्थं स्वशिष्यैः साकं नदीतीरं गतवान् । तत्र कश्चन निषादः वृक्षस्य उपरि विद्यमानयोः क्रौञ्चयोः मध्ये एकं मारितवान् । एतत् हृदयभेदकं दृश्यं कवेः मुखतः छन्दोबद्धरूपेण दुःखप्रवाहम् अकारयत् । तद्यथा- मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ॥ (हे निषाद, त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः) तदनन्तरं मम मुखतः शापवाक्यमागतम् इति चिन्तया महर्षिः ततोऽपि अधिकं दुःखम् अनुभूतवान् । किन्तु नारदमहर्षिणा प्रचोदितः सः दुःखम् अपनीय स्वमुखतः आगतस्य श्लोकस्य अपरम् अर्थं ज्ञातवान् । तद्यथा – हे मानिषाद, त्वं शाश्वतीः समाः प्रतिष्ठाम् अगमः, यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः इति ॥ एषः विष्णुवन्दनपरः श्लोकः इत्यवगत्य तेन प्रेरितः वाल्मीकिः आदिकाव्यस्य रामायणस्य रचनाम् अकरोत् ॥ रामायणस्य रचनाकालः अतिप्राचीनानां रामायणादिग्रन्थानां रचनाकालः एषः एव इति दृढं वक्तुं न शक्यते । वस्तुतः एतस्मिन् वर्षे एतस्मिन् मासे एतस्मिन् दिने एतस्मिन समये एषः ग्रन्थः रचितः इति कथने प्रयोजनमपि नास्ति । तथापि एतादृशग्रन्थानां रचनाकालविषये पण्डिताः भिन्नं भिन्नं मतं प्रकटयन्ति । तदनुसृत्य रामायणस्यापि कालस्य रामान्यनिर्णयः कृतः अस्ति ।। रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति ।
Shivpoojan chaurasiya १२:३२, १८ अगस्त २०१५ (UTC)