सामग्री पर जाएँ

सदाचारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सदाचारः, पुं, (सतां साधूनामाचारः ।) साधू- नामाचरणम् । तल्लक्षणादि यथा, -- “सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तद्देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥ तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां सदाचारः स उच्यते ॥” इति मनुः ॥ * ॥ अन्यच्च । और्व्वौवाच । “सदाचारेषु राजेन्द्र विशेषान् शृणु संप्रति । यानवश्यं नृपः कुर्य्यात्तान्मत्तः सकलान् शृणु ॥ साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते ॥ आगमेषु पुराणेषु संहितासु यथोदितान् । समुद्दिष्टसदाचारांस्तान् गृह्णीयाद्गृहस्थवत् ॥ ऋषीन् यजेद्वेदपाठैर्द्देवान् होमैस्तु पूजयेत् । श्राद्धैः पितॄन् यजेदन्नैर्भूतानि बलिभिस्तथा ॥ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । सर्व्वं गृहस्थवत् कुर्य्यात् निषेकाद्यं विधिं तथा ॥ षट्कर्म्मसु नियुञ्जीत राजा विप्रान् समन्ततः । तथैव क्षत्त्रियादीनि स्वे स्वे कर्म्मणि योजयेत् ॥ (सन् साधुराचारो यस्य । सदाचारणशीले, त्रि । यथा, कथासरित्सागरे । २ । ७ । “कात्थायनो जगादैनमुपविष्टः क्षणान्तरे । सदाचारो भवानेवं कथमेतां गतिं गता ॥”)

"https://sa.wiktionary.org/w/index.php?title=सदाचारः&oldid=174054" इत्यस्माद् प्रतिप्राप्तम्