सामग्री पर जाएँ

सदानन्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सदानन्दः, पुं, (सदा आनन्दो यस्य ।) शिवः । यथा, -- “सदाशिवः सदाकर्त्ता सदाहर्त्ता सदागतिः । सदानन्दः सदावर्त्ता सदासङ्गविवर्ज्जितः ॥” इति श्रीशिवयामले पार्व्व तीश्वरसंवादे शिव- सहस्रनामस्तोत्रम् ॥ सतताह्णादयुक्ते, त्रि । यथा, “ममानन्दे सदानन्दः सदानन्दो भविष्यति । ममानन्दे निरानन्दो निरानन्दो भविष्यति ॥” इति पुराणे भगवतीवाक्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=सदानन्दः&oldid=174061" इत्यस्माद् प्रतिप्राप्तम्