सदापुष्पः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सदापुष्पः, पुं, (सदा पुष्पं यस्य ।) नारिकेलवृक्षः । इति शब्दमाला ॥ सर्व्वदाकुसुमयुक्ते, त्रि ॥ (यथा, महाभारते । १४ । ३५ । २०-२२ । “अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥ महाभूतविशेषश्च विशेषप्रतिशाखवान् । सदापर्णः सदापुष्पः सदाशुभफलोदयः ॥ आजीवः सर्व्वभूतानां ब्रह्मबीजः सनातनः । एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना ॥ छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ॥”
