सद्यःशौचम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सद्यःशौचम्, क्ली, (सद्य एव शौचं शुद्धिः ।) तत्- क्षणाच्छद्धिः । यथा, -- “शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः “सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः । सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥” उपप्लवे राजविप्लवे । औपसर्गिकात्यन्तमरक- पीडने च सद्यःशौचमुक्तम् । तथा च पराशरः । “उपसर्गमृते चैव सद्यःशौचं विधीयते ।” अतएव । “आपद्यपि च कष्टायां सद्यःशौचं विधीयते ।” इति याज्ञवल्क्यवचने अनिरुद्धभट्टशूलपाणि- प्रभृतिभिरौपसर्गिकात्यन्तमरकपीडायां सद्यः- शौचं विधीयते इत्युक्तम् । उपसर्गश्च त्रिवि- धोत्पातः । तथा च गर्गसंहिताबार्हस्पत्ययोः । “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्य- धर्म्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः । ताः सृजन्त्यद्भुतांस्तावद्दिव्यनाभसभूमिजान् ॥ त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः सम्भावयन्ति च ॥” यद्यप्युपसर्गः स्मृतो रोगभेदोपप्लवयोरपीति विश्वकोषादुपसर्गस्योभयवाचकत्वं तथाप्यत्र मुनिप्रयुक्तत्वेनान्तरङ्गत्वात् त्रिविधोत्पातात्म- कोपसर्गो गृह्यते न तु रोगविशेषात्मक इति । एतेनोपसृजन्तीति व्युत्पत्त्या देहाभ्यन्तर एव यावद्वर्त्तते तावत्कालमरण एव सद्यःशौचं बहि- र्भावे व्रणपरम्परया मरणे सति स्वजात्युक्ता- शौचमेवेति त्र्यहमिति दर्शनस्मृतिसारप्रदीपा इति वाचस्पतिमिश्रोक्तं हेयम् । द्विजैर्ब्राह्मणैः शापादीत्यादिशब्देनाभिचारमृतस्य ग्रहणम् । ब्रह्मकूर्म्मपुरणाभ्यां यद्ब्राह्मणहतस्याशौचा- भाव उक्तः स बुद्धिपूर्व्वकहनने बोद्धव्यः । प्रमाद- हते त्वशौचाद्यस्त्येव अन्यथा मरीचिवचनं निर्व्विषयं स्यात् । यथा, -- “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता विषादिसाहचर्य्यात् ब्राह्मणकृतघातोऽस्या- स्तीति प्रतीयते । यच्चात्र ये च वै ब्राह्मणैर्हता इति ब्रह्मपुराणीयं साधकत्वेनोपन्यस्तं श्राद्ध- विवेके तच्चिन्त्यम् । “महापातकिनो ये च पतितास्ते उदाहृताः ।” इत्यत्तरार्द्धेन पातित्यमभिधाय तेषां श्राद्ध- निषेधात् । जावालः । “दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते । पतितेऽनशनप्रेते विदेशस्थे शिशौ न च ॥” नाशौचमित्यर्थः । इति शुद्धितत्त्वम् ॥
