सामग्री पर जाएँ

सद्यस्क्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सद्यस्क्री¦ पु॰ सद्यःक्रीणाति सोमम् यत्र क्री--आधारे किप्कस्का॰। सद्यःसोमक्रयसाध्ये यागभेदे
“एकरात्रोऽति-रात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः” अथर्व॰

११ ।

७ ।

१० । नाना-यज्ञोक्तौ। भावे क्विप्।

२ सद्यस्क्रये स्त्री। तया साध्यःअण्। साद्यस्क्र सद्यःसोमक्रयेण एकाहसाध्ये यज्ञभेदे।
“साद्यस्क्राश्च षट्” कात्या॰ श्रौ ॰

२२ ।

२ ।

९ । उक्ता यथा
“षट्साद्यस्क्रा” सू॰
“स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः” सू॰।

१ साद्व्यष्क्र ख्यक्रतुर्भवति।
“दीर्घव्याधिप्रतिष्ठाकामा-न्नाद्यकामानां द्वितीयः” सू॰। साद्यष्क्रो

२ भवति एषा-मत्राधिकारः।
“हीनस्यानुक्रीः” सू॰ अनुक्रीर्नाम

३ साद्यष्क्रः स हीनस्य भवति यः कर्मणा हीन तस्यासौभवति।
“विश्वजिच्छिल्पः” सू॰ नाम साद्यस्क्रः

४ ।
“श्येनोऽभिचरतः” सू॰। श्येनो

५ नाम साद्यष्क्रः पञ्चमःसोऽभिचरतो भवति।
“एकत्रिकः” सू॰ षष्ठः

६ साद्यष्क्रः। तत्र षट् षष्टिशतं दक्षिणा। साद्यःक्रधर्माः व्याख्या-स्यन्त इति सूत्रशेषः। दीक्षादि सद्यः सर्वं क्रियते” भाष्यम् ताण्ड्यब्रा॰ भाष्ये चोक्तं यथा( अथ साद्यस्क्रा नाम पञ्च एकाहास्तेषु पथमद्विती-ययोर्दीक्षाप्रभृत्यवभृथान्तं, सर्वमेकस्मिन्नेवाहन्यनु-ष्ठेय तृतीयस्य तु एकस्मिन् दिवसे दीक्षा परस्मिन्दिवसे सोमक्रयाद्यवभृथान्तं, चतुर्थपञ्चमयोरप्येवं यद्वाएका दीक्षा सोमक्रयप्रभृति उपवसथान्तं द्वितीयेऽहनिसुत्येति एवं सूत्र कारमतं पञ्चस्वपि साद्यस्क्रान्वयात्सद्य एव एकस्मिन्नेवाहनि दीक्षाद्यवभृथान्तं कर्त्तव्य-मिति मतात्तरम्। एतत्सर्वं साद्यम्क्रेण वक्ष्यमाणे म-हारात्रे प्रातराहुतिं हुत्वेत्यादिना सूत्रकारेण विस्प-ष्टमुक्तम्। तत्र प्रथमस्य यदुर्क्त सर्वं सद्योऽनुष्ठेयमितितद्विधित्सुराह
“आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गेलोकेऽस्पर्द्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवं[Page5210-a+ 38] स्त आदित्या एतमपश्यंस्तं सद्यः परिक्रीयायास्यमुद्धा-तारं वृत्वा तेन स्तत्वा स्वर्गं लोकभायन्नहीयन्ताङिरसः” ताण्ड्य॰ ब्रा॰

१६ ।

१२ ।

१ ।
“पुरा आदित्याश्चाङ्गिरसश्च अदीक्षन्त यज्ञाय दीक्षां कृतवन्तः ते उभे स्वर्गेलोके स्वर्गलोकतिमित्तम{??}न्त वयं प्रथमं गमिष्यामोबयं प्रथमं गमिष्याम इति स्पर्द्धां कृतवन्तः एवं स्पर्द्ध-मानास्तेऽङ्गिरस आदित्येभ्यः सुत्यां श्वः परस्मिन्दीक्षा-नन्तरदिने करिष्यमाणं सोमयागं प्राब्रुवन् प्रोक्तवन्तःअथ ते आदित्या एव वक्ष्यमाणयज्ञमपश्यन् तं यज्ञंसद्यः एकस्मिन्नेवाहनि परिक्रीय सोमं क्रीत्वा अयास्यमृषिमुद्गातारं वृत्वा स्तावयित्वा समापयन् दोक्षाद्यवभृ-धन्तं सर्वं कर्म एकस्मिन्नेवाहनि अन्वतिष्ठन्नित्यर्थः। यज्ञसमाप्त्यनन्तरमेव ते स्वर्गलोकमायन् प्राप्नुवन् आ-ङ्गिरषस्त्वहीयन्त दीक्षानन्तरदिवसे सुत्येति तैरुक्तत्वात्एतस्विन् दिने दीक्षाद्यवभृथान्तस्य सर्वस्याननुष्ठानेनस्वर्गप्राप्ताभावात् दीक्षितैरादित्यैः वद्योऽनुष्ठानेन स्वर्ग-गतेः हीनाः भूमायेव परित्यक्ता आसन्” भा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सद्यस्क्री/ स-द्यस्--क्री mfn. = सद्यह्-क्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सद्यस्क्री पु.
एक सोम-याग (एकाह) जिसमें सोम का क्रयण (खरीद) वास्तविक सवन के दिन किया जाता है, अगिन्ष्टोम की तरह नहीं, जिसमें सोम (एक) पूर्ववर्ती दिन (में) खरीदा जाता है, बौ.श्रौ.सू. 18.2० = साद्यस्क्र, आप.श्रौ.सू. 22.2.6।

"https://sa.wiktionary.org/w/index.php?title=सद्यस्क्री&oldid=480695" इत्यस्माद् प्रतिप्राप्तम्