सामग्री पर जाएँ

सद्वृत्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सद्वृत्तम्, क्ली, (सत् वृत्तम् ।) साधुस्वभावः । सच्च- रित्रम् । इति जटाधरः ॥ (यथा, कथा- सरित्सागरे । ५१ । २२७ । “सच नरवाहनदत्तः सद्बृत्तमनोरमामुदारगुणाम् प्राप्यालङ्कारवतीं वाणीमिव सुकविरास्त तद्रसिकः ॥”) तद्युक्ते त्रि । यथा, -- “नासमञ्जसशीलैस्तु सहासीत कदाचन । सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सद्वृत्तम्&oldid=174114" इत्यस्माद् प्रतिप्राप्तम्