सामग्री पर जाएँ

सधर्म्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सधर्म्मा, [न्] त्रि, (समानो धर्म्मो यस्य । “धर्म्मा- दनिच् केवलात् ।” ५ । ४ । १२४ । इति अनिच् ।) सदृशः । यथा, -- “तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्म्माणौ सवर्णः सन्निभः सदृक् ॥” इति हेमचन्द्रः ॥ समानधर्म्मयुक्तश्च ॥ (यथा, मनुः । १० । ४१ । “सजातिजानन्तरजाः षट्सुता द्विजर्म्मिणः । शुद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सधर्म्मा&oldid=174118" इत्यस्माद् प्रतिप्राप्तम्