सामग्री पर जाएँ

सधर्म्मिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सधर्म्मिणी, स्त्री, (सह धर्म्मोऽस्या अस्तीति । “धर्म्मशीलवर्णान्ताच्च ।” ५ । २ । १३२ । इति इनिः । “वोपसर्जनस्य ।” ६ । ३ । ८२ । इति सहस्य सः ।) भार्य्या । यथा, -- “सुवासिनी बधूटी स्याच्चिरण्ट्यथ सधर्म्मिणी । पत्री सहचरी पाणिगृहिती गृहिणी गृहा ॥” इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=सधर्म्मिणी&oldid=174119" इत्यस्माद् प्रतिप्राप्तम्