सध्र्यङ्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सध्र्यङ्, [च्] त्रि, (सह अञ्चतीति । अञ्च गतौ + ऋत्विगादिना क्विन् । सहस्य सध्रिः ।) सहचरः इत्यमरः ॥ (यथा, भागवते । २ । ७ । ४७ । “सध्य्रङ् नियम्य यतयो यमकर्त्तहेतिं । जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥” सम्यक् । यथा, तत्रैव । ४ । २७ । १ । “इत्थं पुरञ्जनं सन्ध्रग्वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥”)
