सामग्री पर जाएँ

सनसूत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सनसूत्रम्, क्ली, (सनस्य सूत्रम् ।) पवित्रकम् । द्वे शणसूत्रजाले । शणस्य सूत्रं शणसूत्रं शणति ददाति सूत्रं शणः । शण श्रन्म दाने अन् शण- स्तालव्यादिमूर्द्धन्यणान्तः । इति बहवः । सनो दन्त्यसादिर्दन्त्यनान्तः । इति केचित् । तन्मते षन दु ञ दाने इत्यस्य रूपम् । सणो दन्त्य- सादिर्मूर्द्धन्यणान्त इत्यपरे । सण किण मणि काकण कोण काणा इति मूईन्यणान्ते विद्या- भरणः । “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् । सनसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥” इति मनुवचनात् पवित्रकमपि तदुच्यते । इत्य- मरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=सनसूत्रम्&oldid=174139" इत्यस्माद् प्रतिप्राप्तम्