सामग्री पर जाएँ

सनातनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सनातनः, पुं, (सना भवः । “सायञ्चिरंप्राह्ले प्रगे इति ।” ४ । ३ । २३ । इति ट्युट्युलौ तुट् च ।) विष्णुः । शिवः । ब्रह्मा । पितॄणामतिथिः । इति हेमचन्द्रः ॥ दिव्यमनुष्यः । अस्य प्रमाणं सनन्दशब्दे द्रष्टव्यम् । स च ब्रह्मणः पुत्त्रः । यथा, -- “सनत्कुमारो धर्म्मश्च सनकश्च सनातनः । सनन्दश्चापि सूर्य्यश्च येऽन्ये वा ब्रह्मणः सुताः ॥ विचक्षणा न यद्वक्तुं के वान्ये जडबुद्धयः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३१ अध्यायः ॥ स तु जनलोकवासी । इति काशीखण्डम् ॥ वह्निपुराणमते तु तपोलोकस्थ इति भेदः । वैष्णवराजः । इति मत्स्यपुराणम् ॥

सनातनः, त्रि, (सनाभवः । सायञ्चिरमिति ट्युट्युलौ तुट् च ।) नित्यम् । इत्यमरः ॥ सुनिश्चलः । इति विश्वः ॥ (यथा, मनुः । ७ । ९८ । “एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः । अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रने रिपून् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सनातनः&oldid=174143" इत्यस्माद् प्रतिप्राप्तम्