सन्तानः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्तानः, पुं, (सन्तनोति विस्तारयति पत्रपुष्पादी- निति । सम् + तन विस्तारे + “तनोतेरुप- संख्यानम् ।” ३ । १ । १४० । इत्यस्य वार्त्ति- कोक्त्या णः ।) कल्पवृक्षः । (संतन्यते इति । तन + घञ् ।) वंशः । इत्यमरः ॥ विस्तारः । (यथा, महाभारते । १ । १०३ । १० । “तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगात् महाबाहो धर्म्मं कर्त्तुमिहार्हसि ॥”) अपत्यम् । इति मेदिनी ॥ (यथा, मनुः । ९ । ५९ । “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यक् नियुक्तया प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥”) तद्वैदिकपर्य्यायः । तुक् १ तोकम् २ तनयः ३ तोक्म ४ तक्म ५ शेषः ६ अप्नः ७ गयः ८ जाः ९ अपत्यम् १० यहुः ११ सूनुः १२ नपात् १३ प्रजा १४ बीजम् १५ । इति पञ्चदशापत्य- नामानि । इति वेदनिघण्टौ । २ । २ ॥ (अस्त्र- विशेषे, क्ली । यथा, महाभारते । ५ । ९६ । ४० । “सन्तानं नर्त्तकं घोरमास्यमोदकमष्टमम् । एतैर्विद्धाः सर्व्व एव मरणं यान्ति मानवाः ॥”
