सामग्री पर जाएँ

सन्दंशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्दंशः, पुं, (सन्दशतीवेति । सं + दन्श + अच् ।) कङ्कमुखः । इति हेमचन्द्रः ॥ सा~डासी इति भाषा ॥ (यथा, मार्कण्डेये । २४ । ६३ । “निपातितानां भूपृष्ठे उद्वॄत्याक्षि निरीक्षताम् सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात्ततः ॥” वैद्यशास्त्रोक्तयन्त्रविशेषः । यथा, सुश्रुते । १ । ७ । “तत्र मनःशरीरावाधकराणि शल्यानि तेषा- माहरणोपायो यन्त्राणि । तानि षट्प्रकाराणि । तद्यथा । स्वस्तिकयन्त्राणि । सन्दंशयन्त्राणि । *** द्वे सन्दंशयन्त्रे *** सनिग्रहोऽनिग्रश्च सन्दंशौ षोडशाङ्गुलौ भवतस्त्वग्मांसशिरास्नायु- गतशल्योद्धरणार्थमुपदिश्येते ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्दंशः&oldid=174193" इत्यस्माद् प्रतिप्राप्तम्