सन्देहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्देहः, पुं, (सं + दिह + घञ् ।) एकधर्म्मिक- विरुद्धभावाभावप्रकारकं ज्ञानम् । इति सिद्धा- न्तमुक्तावली ॥ तत्पर्य्यायः । विचिकित्सा २ संशयः ३ द्वापरः ४ । इत्यमरः ॥ (यथा, महाभारते । ३ । ५७ । ११ । “तान् समीक्ष्य ततः सर्व्वान् निर्विशेषाकृतीन् स्थितान् । सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥”)
