सामग्री पर जाएँ

सन्धानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्धानम्, क्ली, (सन्धीयते यदिति । सं + धा + ल्युट् ।) मद्यसज्जीकरणम् । इति नयनानन्दः ॥ तत्- पर्य्यायः । अभिषवः २ । इत्यमरः ॥ सन्धानी ३ सन्धिका ४ । इति शब्दरत्नावली ॥ सन्धीयते सन्धानं वंशाङ्कुरफलादीन् बहुकालं सन्धाय, यत् क्रियते । इति भरतः ॥ सङ्घट्टनम् । इति मेदिनी ॥ (यथा, कुमारे । ५ । २७ । “मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥”) काञ्जिकम् । इति हलायुधः ॥ मदिरा । अव- दंशः । सौराष्ट्रम् । इति राजनिर्घण्टः ॥ धनुषि बाणयोजनम् । यथा, -- “तदाशु कृतसन्धानं प्रतिसंहर शायकम् । आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥” इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥ अन्वेषणम् । इति लोकप्रसिद्धम् ॥ (सन्धिः । यथा महाभारते । ५ । १० । ३३ । “एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् । यत्तः समभवच्चापि शक्रो हर्षसमन्वितः ॥”) सन्दधातीति । सं + धा + ल्युः । धारके, त्रि । यथा, सुश्रुते । १ । ४५ । “मधु तु मधुरं कषायानुरसं * * हृद्यं सन्धानं शोधनं रोपणमिति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्धानम्&oldid=174243" इत्यस्माद् प्रतिप्राप्तम्