सामग्री पर जाएँ

सन्धानिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्धानिका, स्त्री, (सन्धानमस्त्यस्या इति सन्धान + ठन् ।) खाद्यद्रव्यविशेषः । आचार इति भाषा । तत्करणप्रकारको यथा । अपक्वाम्र- फलानि विंशतिः राजिका शरावषोडशैकभाग- मिता मरिचं तोलकद्वयं लवणं षट्तोलकं मेथिकाद्वितोलकं जीरकं तोलकद्वयं हरिद्रा- तोलकैकं नागरमुस्तकमेकतोलकं कृष्णजीरकं तोलकैकं गृतीत्वा आम्रभिन्नं सकलद्रव्यं चूर्ण- यित्वा एकत्रीकुर्य्यात् । आम्रन्तु दीर्घं द्विखण्डं चतुष्खण्डं वा कृत्वा अष्ठीं दूरीकृत्य तदभ्यन्तरे पूर्व्वोक्तचूर्णं पूरयित्या शलाकया विद्धाखण्डा- म्रवत् कुर्य्यात् । ततस्तैले निमज्जयेत् । इति पाकराजेश्वरः ॥

"https://sa.wiktionary.org/w/index.php?title=सन्धानिका&oldid=174244" इत्यस्माद् प्रतिप्राप्तम्