सामग्री पर जाएँ

सन्धिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्धिः, पुं, (सन्धानमिति । सं + धा + किः ।) राजादीनां षड्गुणान्तर्गतगुणविशेषः । स तु स्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनात् मित्री- करणम् । मेल इति ऐक्य इति च भाषा । तद्विवरणं यथा, -- “पनबद्धो भवेत् सन्धिः स्वयं हीनस्तमाचरेत् । मर्य्यादोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः ॥ मर्य्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् । न तं संशयितं कुर्य्यादित्युवाच बृहस्पतिः ॥ बलवद्विगृहीतः सन् नृपोऽनन्यप्रतिश्रयः । बोधव्याकरणटीकायां दुर्गादासः ॥ * ॥ सर्व्वा- ङ्कुरसन्धिर्म्मासत्रयेण भवति । गात्रसन्धिः सप्त- मासैर्भवति । इति सुखबोधः ॥ युगसन्धिर्युग- शब्दे देहसन्धिर्म्मर्म्मशब्दे च द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=सन्धिः&oldid=174250" इत्यस्माद् प्रतिप्राप्तम्