सामग्री पर जाएँ

सन्धिपूजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्धिपूजा, स्त्री, (सन्धौ अष्टमीनवमीसन्धिक्षणे पूजा ।) शारदीयमहापूजान्तर्गततृतीया पूजा । यथा कालिकापुराणवचनान्तरम् । “अष्टमीनवमीसन्धौ तृतीया खलु कथ्यते । तत्र पूज्या त्वहं पुत्त्र योगिनीगणसंयुता ॥” ज्योतिशे । “अष्टम्यां सन्धियोगे सकलपरिजनैः पूजयेत् सत्त्वभावै, ।” सप्तमीपूजावत्महाष्टम्यादिकृत्यमपि षष्टिद- ण्डात्मिकायाभेव न तु परदिवसीयखण्डतिथौ किन्तु पूर्व्वोक्तसन्ध्यनुरोधान्निशादाविव खण्ड- तिथावपि सन्धिपूजा । एवञ्च पूर्णाष्टम्यां महा- ष्टमीपूजा तत्परदिने अष्टमीनवम्योः सन्धिपूजा तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर- पुराणाद्युक्तोदयगामितिथ्यनुरोधात् । तत्पर- दिने दशम्यां विसर्जनं पूजानुरोधेनाधिकदिन- लाभात् । अन्यत् दुर्गाशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्धिपूजा¦ स्त्री सन्धौ अष्टम्याः शेषे नवम्याश्च आद्ये दण्डेपूजा। आश्विनशुक्लाष्टमीनवमीसन्धिकाले विहितपूजायाम्
“अष्टमी नवभीसन्धौ तृतीया खलु कथ्यते। तत्र पूज्यात्वहं पुत्र! योगिनीगणसंयुता”। ज्योतिषे
“अष्टम्यांसन्धियोगे सकलपरिजनैः पूजयेत् सत्वभावैः”। कामरूपीयनिबन्धे स्मृतिसागरे च
“अष्टम्याः शेषदण्डश्च नवम्याःपूर्व दव च। अत्र या क्रियते पूजा विज्ञेया सा महा-[Page5213-b+ 38] कला” मत्स्यसूक्तेऽपि
“अष्टमीनवमीयोगो रात्रि-भागे विशिष्यते। अर्द्धरात्रे दशगुणं सन्ध्यायां त्रिगुणंभवेत्”। आश्विनाधिकारे
“अष्टमी नवमीयुक्ता नवमीचाष्टमीयुता। अर्द्धनारीश्वरप्राया उमामाहेश्वरीतिथिः”। इति विष्णुधर्मोत्तरीयमप्ये तद्विषयं न तुमहानवमीपूजापरम्। तस्या अष्टम्युववासपरदिनबिधा-नेन सप्तमीवद्युग्मानादरात्। ततश्च सप्तमीपूजावन्महा-ष्टम्यादिकृत्यमपि षष्टिदण्डात्मिकायामेव न तु परदिवसीयखण्डतिथौ किन्तु पूर्वोक्तसन्ध्यनुरोधान्निशादावित खण्ड-तिथावपि सन्धिपूजेति। एवञ्च यस्मिन् दिने महाष्टमी-पूजा तस्मिन् दिन एव उपवासः। न तु सन्धिपूजादिने अष्टमीत्वेनोपवासविधेः पूर्वमुक्तत्वात्। एवञ्च पूर्णा-ष्टम्यामष्टमीपूजा ततपरदिने अष्टमीनवम्योः सन्धौ सन्धि-पूजा तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर-पुराणाद्युक्तोदय्गामितिथ्यनुरोधात् तत्परदिने दशम्यांविसर्जनं पूजानुरोधेनाधिकदिनलाभात्” ति॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=सन्धिपूजा&oldid=389785" इत्यस्माद् प्रतिप्राप्तम्