सन्ध्यांशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्ध्यांशः, पुं, (सन्ध्याया अंशः ।) युगसन्धिः । यथा, -- “चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥” इति मानवे । १ । ६९-७० ॥ चत्वार्य्याहुरिति । चत्वारि वर्षसहस्राणि कृत- युगं कालं मन्वादंयो वदन्ति तस्य तावद्वर्ष- शतानि सन्ध्या सन्ध्यांशश्च भवति युगस्य पूर्व्वा सन्ध्या उत्तरश्च सन्ध्यांशः । तदुक्तं विष्णुपुराणे । “तत्प्रमाणैः शतैः सन्ध्यां पूर्व्वां तत्राभिधीयते । सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः ॥ सन्ध्यासन्ध्यांशयोरन्तर्यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥” वर्षसंख्या चेयं दिव्यमानेन तस्यैवानन्तरप्रकृत- त्वात । “दिव्यैर्व्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥” इति विष्णुपुराणवचनाच्च । इतरेष्विति अन्येषु त्रेताद्वापरकलियुगेषु सन्ध्या सन्ध्यांशसहितेषु एकहान्या सहस्राणि शतानि च भवन्ति । तेनेदं सम्पद्यते । त्रीणि वर्षसह- स्राणि त्रेतायुगं तस्य त्रीणि वर्षशतानि सन्ध्या सन्ध्यांशश्च । एवं द्वे वर्षसहस्रे द्वापरः तस्य द्बे वर्षशते सन्ध्या सन्ध्यांशश्च । एवं वर्षसहस्रं कलिः । तस्यैकवर्षशतं सन्ध्या सन्ध्यांशश्च । इति कुल्लूकभट्टः ॥
