सन्ध्याचल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्ध्याचलः, पुं, (सन्ध्याया अचलः ।) पर्व्वत- विशेषः यथा, -- “आराधनोपदेशाय कापोतस्य वचः स्मरन् । जग्मतुर्द्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः ॥ कान्ता नाम नदी तत्र वशिष्ठे नावतारिता । तस्यास्तीरे महाशैले स्निग्धच्छाया लता तदा । सन्ध्यां वशिष्ठः कृतवान् तत्र यस्माद्विधेः सुतः । अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः ॥” इति कालिकापुराणे ५० अध्यायः ॥ * ॥ अपि च । “क्षोभकाख्यान्महाशैलादैशान्यां पर्व्वतोत्तमः । तुङ्गः सन्ध्याचलो नाम वशिष्ठो यत्र शप्तवान् ॥ निमेर्नाम्ना तु राजर्षेः शापाद्ब्रह्मसुतः पुरा । वशिष्ठो ह्यशरीरोऽभूत्तच्छापाच्च निमिस्तथा ॥ ततो ब्रह्मोपदेशेन निर्जने कामरूपके । सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा ॥ प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः । अमृतान्यवतार्य्यर्थे कुण्डं कृत्वा गिरिस्तटे ॥ तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् । तस्मादमृतकुण्डात्तु सन्ध्या नाम नदीवरा । निःस्मृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥” इति च कालिकापुराणे ८१ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्ध्याचल¦ पु॰
“सन्ध्यां वशिष्ठः कृतवान् तत्र तस्माद्वथेःसुतः। ततः सन्ध्याचलं नाम तस्य गायन्ति देवताःकालिकाप॰
५० अ॰ निरुक्ते पर्वतभेदे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्ध्याचल¦ m. (-लः) The name of a mountain. E. सन्ध्या twilight, अचल a mountain.