सामग्री पर जाएँ

सन्नध्वः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्नध्वः, त्रि, (सं + नह + क्तः) वर्म्मितः । कृतसन्नाहः । (यथा, भागवते । ७ । १० । ६६ । सन्नद्धो रथमास्थाय शरं धनुरुपाददे ॥”) व्यूढः । व्यूहविन्यासयुक्तः । इति मेदिनी ॥ आततायी । वधोद्यतः । इत्यमरटीकायां राय- मुकुटः ॥ मन्त्रादिसंयुतः । इति शब्दरत्नावली ॥ (आबद्धः । यथा, अभिज्ञानशकुन्तले १ अङ्के । “कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥” सञ्जातः । इति मल्लिनाथः ॥ यथा, रघुः । ३ । ७ । “पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लुवा ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्नध्वः&oldid=174300" इत्यस्माद् प्रतिप्राप्तम्