सामग्री पर जाएँ

सन्निकर्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्निकर्षः, पुं, (सं + नि + कृष + घञ् ।) सान्नि- ध्यम् । तत्पर्य्यायः । पार्श्वम् २ समीपम् ३ सवि- धम् ४ समीपाभ्यासम् ५ सवेशः ६ अन्तिकः ७ सदेशम् ८ अभ्यग्रम् ९ सनीडम् १० सन्नि- धानम् ११ उपान्तम् १२ निकटम् १३ उप- कण्ठम् १४ सन्निकृष्टम् १५ समर्य्यादम् १६ अभ्यर्णम् १७ आसन्नः १८ सन्निधिः १९ । इति हेमचन्द्रः (यथा, कुमारे । ३ । ७४ । “स्त्रीसन्निकषं परिहर्त्तुमिच्छन् अन्तर्दधे भूतपतिः सभूतः ॥”) न्यायमते विषयेन्द्रियसम्बन्धः । स च ज्ञानस्य कारणम् । स तु द्विविधः । लौकिकसन्निकर्षः अलौकिकसन्निकर्षश्च । लौकिकसन्निकर्षश्च षड्- विधः । इन्द्रियसंयोगः १ इन्द्रियसंयुक्तसमवायः २ इन्द्रियसंयुक्तसमवेतसमवायः ३ श्रोत्रादि- समवायः ४ श्रोत्रादिसमवेतसमवायः ५ तदादि- विशेषणता ६ ॥ अलीकिकसन्निकर्षस्तु त्रिविधः । सामान्यलक्षणा १ ज्ञानलक्षणा २ योगजः ३ । यथा, -- “महत्त्वं षड्विधे हेतुरिन्द्रिथं करणं मतम । विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः । द्रव्येषु समवेतानां तथा तत्समवायतः ॥ तत्रापि समवेतानां शब्दस्य ससवायतः । तद्वृत्तीनां सममेतसमवायेन तद्ग्रहः ॥ विशेषणतया तद्वदभावानां ग्रहो भवेत् । यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥ प्रत्यक्षं समवायस्य विशेषणतया भवेत् । अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ॥ सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा । आसत्तिराश्रयाणान्तु सासान्यज्ञानमिष्यते ॥ तदिन्द्रियजतद्धर्म्मबोधसामग्य्र पेक्ष्यते । विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ॥ योगजो द्विविधः प्रोक्तो यक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदः ॥

"https://sa.wiktionary.org/w/index.php?title=सन्निकर्षः&oldid=174308" इत्यस्माद् प्रतिप्राप्तम्