सामग्री पर जाएँ

सन्निधानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्निधानम्, क्ली, (सं + नि + धा + ल्युट् ।) निक- टम् । इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । २१ । ५३ । “श्रेयो मुहूर्त्तं तव सन्निधानं ममैव कृस्नादपि जीवलोकात् ॥” * ॥ सम्यङ्निधीयतेऽस्मिन्निति ।) आश्रयः । यथा, “आरम्भः संशयानामविनयभवनं पत्तनं साह- सानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्यया- नाम् । दुस्त्याज्यं यन्महद्भिः सुरनरवृषभैः सर्व्वमाया- करण्डं स्त्रीरूपं केन लोके विषममृतमयं धर्म्मनाशाय सृष्टम् ॥” इति शान्तिशतकम् ॥ (अवस्थानम् । यथा, मार्कण्डेये । ९७ । ३५ । “यस्मिन् गेहे च लिखितमेतत् तिष्ठति नित्यदा सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्निधानम्&oldid=174316" इत्यस्माद् प्रतिप्राप्तम्