सन्निपातः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्निपातः, पुं, (सम्यक् निपातो पतनं यत्र ।) तालभेदः । यथा, -- “एक एव गुरुर्यत्र सन्निपातः स उच्यते ।” इति सङ्गीत्दामोदरः ॥ (सम्यक् निपातो यस्मात् ।) विकारोत्पादक- मिलितदोषत्रयम् । अस्य त्रयोदश नामलक्ष- णानि यथा, -- “शीघ्रगस्तान्त्रिकश्चैवमसाध्यश्चित्तविभ्रमः । कष्टसाध्यः कण्ठकुब्जः कर्णिको जिम्भगस्तथा ॥ कष्टात् कष्टतमो ज्ञेयो रुग्दाहो हन्ति मानवम् । अन्तको भग्ननेत्रश्च रक्तष्ठीवी निपातकः ॥ शीताङ्गश्च प्रलापश्च अभिन्यासोऽतिमारकः । ज्ञातव्याः सर्व्वदा वैद्यैः सन्निपातास्त्रयोदश ॥” माण्डवीये । “शीघ्रगस्तान्त्रिकश्चित्तविभ्रमः कण्ठकुब्जकः । कर्णिको जिम्भकश्चैव जग्राहश्चान्तकस्तथा ॥ भग्ननेत्रो विलापश्च प्रलापः शीतलाङ्गकः । अभिन्यासश्चेति विद्यात् सन्निपातास्त्रयोदश ॥ * सदास्यं श्लेष्मणा पूर्णं शूलं कासोऽतिवेदना । शोथश्च लक्षणान्येवं शीघ्रगे सान्निपातिके ॥ १ ॥ अतितन्द्रा ज्वरः श्वासकासस्तापोऽतिसारकः । स्थूलकण्ठः सिता श्यामा जिह्वा कण्ठे च कूजति ॥ श्रुतिरल्पा चेति विद्यात् तान्त्रिके सान्नि- पातिके ॥ २ ॥ मदो मोहो भ्रमस्तापो हास्यशीतप्रलापनम् । नित्यं वैकल्पिता पीडा विकटाक्षनिरीक्षणम् । लक्षणैः सन्निपातोऽयं ज्ञातव्यश्चित्तविभ्रमः ॥ ३ कण्ठग्रहो ज्वरो मूर्च्छा दाहः कम्पविलापनम् मोहस्तापः शिरोऽर्त्तिश्च वातार्त्तः प्रलयं गतः ॥ कण्ठकुब्जं सन्निपातं कष्टसाध्यं विनिर्द्दिशेत् ॥ ४ ज्वरः कर्णान्तशोथश्च श्वासः कम्पः प्रलापनः ॥ स्वेदः कण्ठग्रहस्तापस्तृण्मोहो भयमेव च । कर्णिके सन्निपाते च लक्षणानि भवन्तिहि । ५ ॥ सङ्कटा कठिना जिह्वा कासः श्वासोंऽति- विह्वलः । मूको वधिरता तापो बलहानिश्च लक्षणम् ॥ जिम्भगः सन्निपातोऽयं कष्टात् कष्टतरः परः ॥ ६ ॥ मोहस्तापः प्रलापश्च व्यथा कण्ठे भ्रमः श्रमः ॥ वेदना च तृषा जाड्यं श्वासश्च लक्षणैरिभैः । कष्टात् कष्टतरो ज्ञेयः कग्राहः सान्निपातिकः ॥ दाहो मोहः शिरःकम्पो हिक्का श्वासाङ्ग- मद्द नम् । सन्तापश्चान्तको ज्ञेयः सन्निपातोऽतिमारकः ॥ ८ श्वसनं लोचने भुग्ने स्मृतिः स्थूला ज्वरोऽधिकः । मोहः प्रलापनं कम्पो भ्रमो निद्रा च लक्षणैः ॥ ज्ञातव्यो भुग्ननेत्रोऽयं सन्निपातः क्षयंकरः ॥ ९ ॥ रक्तनिष्ठीवनं मूर्च्छा ज्वरो मोहस्तृषा भ्रमः । वान्तिर्हिक्कातिसारश्च संज्ञानाशो हृदि व्यथा ॥ मण्डलं श्यावरक्तञ्च देहेषु लक्षणैरिमैः । ज्ञातव्यः सन्निपातोऽयं रक्तष्ठीवी निपातकः ॥ १० प्रलापतापकर्णार्त्तिः प्रज्ञानाशोऽतितापवान् । ज्ञेयः प्रलापकश्चिह्नैः सन्निपातोऽतिमारकः ॥ ११ शरीरं हिमवत् शीतमतिसारश्च कम्पनम् । कर्णनादो हस्ततापो हिक्का श्वासः क्रमो- त्तरम् । सर्व्वाङ्गशीतलो हन्ति शीताङ्गः सन्निपातकः ॥ १२ ॥ त्रिदोषञ्च मुखं शुष्कं निद्रावैकल्यकष्टवाक् । निश्चेतनमतिश्वासो मन्दाग्निर्बलहीनता ॥ मृत्युतुल्यमभिन्यासं सन्निपातञ्च लक्षयेत् ॥ १३ ॥ इति चक्रपाणिदत्तः ॥ * ॥ यं दृष्ट्वा यस्य सम्भवः स तस्य सन्निपातः । सन्नि- पातविधिरनिमित्तं तद्विघाताय । इति कलाप- व्याकरणे ४ वृत्तौ २ प्रकरणम् ॥ समूहः । यथा, -- “धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सु क्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥” इति मेघदूतम् ॥ सम्यक्प्रकारेण पतनं मरणञ्च ॥
