सामग्री पर जाएँ

सन्निपातज्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्निपातज्वरः, पुं, (सम्यक् निपातो नाशो यस्मात् तादृशो ज्वरः ।) त्रिदोषजज्वरः । स तु अष्ट- प्रकारज्वरान्तर्गतज्वरविशेषः । अष्टत्वं विवृ- णोति । वातिकः पैत्तिकः श्लैष्मिकश्चेति त्रयः । द्वन्द्वजाश्च त्रयः । वातपैत्तिकः वातश्लैष्मिकः पित्तश्लैष्मिकश्चेति । संघातनः सन्निपातिक एकः “द्व्युल्वणैकोल्वणैः षट् स्युर्हीनमध्यादिकैश्च षट् समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ॥” इति चरकेण त्रयोदश सन्निपाता उक्ताः ॥ ते यथा । वातोल्वणः १ पित्तोल्वणः २ कफो- ल्वणः ३ । वातपित्तोल्वणः ४ वातश्लेष्मोल्वणः ५ पित्तश्लेष्मोल्वणः ६ एवं षट् । अधिकवातो मध्यपित्तो हीनकफः १ अधिकवातो मध्यकफो हीनपित्तः २ अधिकपित्तो मध्यवातो हीन- कफः ३ अधिकपित्तो मध्यमकफो हीनवातः ४ अधिककफो मध्यवातो हीनपित्तः ५ अधिक- कफो मध्यपित्तो हीनवातश्चेति ६ षट् । त्र्युल्वण एकः १ । एवं त्रयोदश । अत्र तु त्रिदोषज- त्वेन साम्यात् सान्निपातिक एक एव गणितः । आगन्तुजोऽपि एक एव । अत्र आगन्तुज- शब्देन अभिघातादयो हेतव उच्यन्ते । कुत्र- चिद्व्याधयः कार्य्यकारणयोरभेदोपचारात् । इति ज्वराधिकारे भावप्रकाशः ॥ * ॥ अथ सन्नि- पातज्वराधिकारमाह । तत्र सन्निपातज्वरस्य काथः कृतः कृन्तति कण्ठकुब्जं कण्ठीरवः कुञ्जरमाशु यद्वत् ॥” सिंहाननो वासकः । शर्व्वरी हरिद्रा । “किरातकटुकाकणाकुटजकण्टकारीशटी- कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरैः । विषामलकपुष्करानलकुलीरशृङ्गीवृषै- र्म्महौषधसखैरयं जयति कण्ठकुब्जं गणः ॥” शटी कच्चूरः । कलिद्रुः विभीतकः । किलिमं देवदारुः । कटुकं मरिचम् । विषा अतिविषा । पुष्करं पुष्करमूलम् । वृषः वासकः । वृषा- दिभिः किविशिष्टैः महौषधसखैः महौ- षधस्य सखिभिः । तेन एतैः सहितेन महौ- षधेन इत्यर्थः ॥ * ॥ अथोल्वणवातादिप्रवृद्ध- मध्यक्षीणवातादिहेतुकानां कुम्भीपाकादिसन्नि- पातज्वराणां त्रयोदशानां चिकित्साभिधीयते सा च तुल्यहेतुकानां विस्फु रकादीनां त्रयो- दशानामिव विधातव्या । इति सन्निपातज्वरा- धिकारः । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=सन्निपातज्वरः&oldid=174324" इत्यस्माद् प्रतिप्राप्तम्