सामग्री पर जाएँ

सन्निवेशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्निवेशः, पुं, (संनिविशन्ते अत्रेति । सं + नि + विश + घञ् ।) पत्तनादिषु दिगादिपरिच्छिन्न- प्रदेशः । पूर्व्वद्दिगाद्यवच्छिन्नगृहम् । इति कलिङ्गः ॥ पुरादेर्बहिर्विहरणभूमिः । इति स्वाम्यादयः ॥ तत्पर्य्यायः । निकर्षणम् २ । इत्य- मरभरतौ ॥ किञ्च । “नगरादिबहिः स्वैरविहारचारुभूमिषु । तत्र द्वयं निगदितं सन्निवेशो निकर्षणम् ॥” इति शब्दरत्नावली ॥ (यथा, रघुः । १४ । ७६ । अशून्यतीरां मुनिसन्निवेशै- स्तमोऽपहन्त्रीं तमसां वगाह्य ॥” संस्थानम् । यथा, कुमारे । ३ । ४५ । “उत्तानपानिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्निवेशः&oldid=174339" इत्यस्माद् प्रतिप्राप्तम्