सन्निहितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्निहितम्, त्रि, (सं + नि + धा + क्तः ।) निकट- स्थितम् । यथा । ब्रह्मपुराणे । “षष्ठ्यादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत् यावत् पुण्यममावास्यां दिनानि दश पञ्च च ॥” इति प्रायश्चित्ततत्त्वम् ॥ (अग्निविशेषे, पुं, । यथा, महाभारते । ३ । २२० । १९ । “प्राणानाश्रित्य यो देहं प्रवर्त्तयति देहिनाम् । तस्य सन्निहितो नाम शब्दरूपस्य साधनः ॥”)
