सन्न्यासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्न्यासः, पुं, (सं + नि + अस् + घञ् ।) जटा- मांसी । इति शब्दचन्द्रिका ॥ काम्यकर्म्मणां न्यासः । हथा, -- “काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥” इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥ अपि च । “सन्न्यासः कर्म्मणां न्यासः कृतानामकृतेः सहा कुशलाकुशलाभ्यान्तु प्रहाणं न्यास उच्यते ॥” इति मात्स्ये १२० अध्यायः ॥ * ॥ चतुर्थाश्रमः । तदाश्रमधर्म्मा यथा, -- “सर्व्वसङ्गपरित्यागो ब्रह्मचर्य्यसमन्वितः । जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥ अनारम्भस्तथाहारे भिक्षा विप्रे ह्यनिन्दिते । आत्मज्ञानविवेकश्च तथा ह्यात्मावबोधनम् ॥ चतुर्थे चाश्रमे धर्म्मो ह्यस्माभिस्ते प्रकीर्त्तितः ॥” इति वामने १४ अध्यायः ॥ * ॥ तदाश्रमकालादि यथा, -- “एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थमायुषो भागं सन्न्यासेन नयेत् क्रमात् ॥ अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ यदा मनसि सम्पन्नं वैतृष्णं सर्व्ववस्तुषु । तदा सन्न्यासमि च्छेत्तु पतितः स्याद्विपर्य्यये ॥ प्राजापत्यान्निरूप्येष्टिमाग्नेयीमथवा पुनः । दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥” इति कौर्म्मे उपविभागे २७ अध्यायः ॥ * ॥ कलौ क्षत्त्रियबैश्ययोः सन्न्यासनिषेधो यथा, -- “अश्वमेधं गवालम्भं सन्न्यासं पलपैतृकम् । देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्ज्जयेत् ॥” इति कलौ सन्न्यासनिषेधकं क्षत्त्रियवैश्य विष- यकम् इति मलमासतत्त्वम् ॥ सर्न्न्यासप्रति- षेधश्च कलौ क्षत्त्रविशीर्भवेत् । इति मलमास- तत्त्वप्रतिज्ञायां श्रीरघुनन्दनभट्टाचार्य्यः ॥ * ॥ चैत्रमासे सन्न्यासकरणप्रमाणं यथा, -- “चैत्रे शिवोत्सवं कुर्य्यात् नृत्यगीतमहोत्सवेः । स्नायात् त्रिसन्ध्यं रात्रौ च हविष्याशी जिते- न्द्रियः । शिवस्वरूपतां याति शिवप्रीतिकरः परः ॥ क्षत्त्रियादिषु यो मर्त्यो देहं संपीड्य भक्तितः । अश्वमेधफलं तस्य जायते च पदे पदे ॥ सर्व्वकर्म्मपरित्यागी शिवोत्सवपरायणः । भक्तैर्ज्जागरणं कुर्य्याद्रात्रौ नृत्यकुतूहलैः ॥ नानाविधैर्म्महावाद्यैन्नृत्यैश्च विविधैरपि । नानावेशधरैर्न्नृत्यैः प्रीयते शङ्करप्रभुः ॥ किमलभ्यं भगवति प्रसन्ने नीललोहिते । तस्मात् सर्व्वप्रयत्नेन तोषणीयो महेश्वरः ॥ शङ्खवाद्यं शङ्खतोयं वर्ज्जयेत शिवसन्निधौ । ग्रामाद्वहिरिमं शम्भोरुत्सवं कारयेन्मुदा । उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समापयेत् ॥” इति बृहद्धर्म्मपुराणे उत्तरखण्डे ९ अध्यायः ॥
