सामग्री पर जाएँ

सन्न्यासिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्न्यासी, [न्] पुं, (संन्यासोऽस्यास्तीति । इनिः । सन्न्यासाश्रमविशिष्टः । चतुर्थाश्रमी । तत्पर्य्यायः पाराशरी २ मस्करी ३ परिव्राट् ४ कर्म्मन्दी ५ श्रमणः ६ भिक्षुः ७ । इति जटाधरः ॥ तस्य लक्षणादि यथा । सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च बिभ्रत् भिक्षावृत्तिर्निर्ज्जने तीर्थे वा स्थित्वा केवलमीश्वराराधनं करोति यः स सन्न्यासी । स तु सतुर्व्विधः । कुटीचरः १ बहूदकः २ हंसः ३ परमहंसः ४ । तस्य धर्म्मा यथा, -- “सदन्ने वा कदन्ने वा लोष्ट्रे वा काञ्चने तथा समबुद्धिर्यस्य शश्वत् स सन्न्यासीति कीर्त्तितः ॥ दण्डं कमण्डलुं रक्तवस्त्रमात्रञ्च धारयेत् । नित्यं प्रवासी नेकत्र स सन्न्यासीति कीर्त्तितः ॥ शुद्धाचारद्विजान्नञ्च भुङ्क्ते लोभादिवर्ज्जितः । किन्तु किञ्चिन्न याचेत स सन्न्यासीति कीर्त्तितः न व्यापारी नाश्रमी च सर्व्व कर्म्मविवर्ज्जितः । ध्यायेन्नारायणं शश्वत् स सन्न्यासीति कीर्त्तितः शश्वन्मौनी ब्रह्मचारी सम्भाषालापवर्ज्जितः । सर्व्वं ब्रह्ममयं पश्येत् स सन्न्यासीति कीर्त्तितः ॥ सर्व्वत्र समबुद्धिश्च हिंसामायाविवर्ज्जितः । क्रोधाहङ्काररहितः स सन्न्यासीति कीर्त्तितः ॥ अयाचितोपस्थितञ्च मिष्टामिष्टञ्च भुक्तवान् । न याचेत भक्षणार्थी स सन्नासीति कीर्त्तितः ॥ न च पश्येत् मुखं स्त्रीणां न तिष्ठेत्तत्ममीपतः दारवीमपि योषाञ्च न स्पृशेद् यः स भिक्षुकः । अयं सन्न्यासिनां धर्म्म इत्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥ * ॥ अपि च । “सर्व्वन्यासी हरौ भूप धर्म्मः सन्न्यासिनां ध्रुवम् श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयाः । अतः कर्म्मविधानानि प्रोक्तानि चित्तशुद्धये ॥ नामरूपं बहुविधं तदर्थं कल्पितं मया । ब्रह्मज्ञानं विना देवि कर्म्मसंन्यसनं विना ॥ कुर्व्वन् कल्पशतं कर्म्म न भवेन्मुक्तिभाजनः । कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः ॥ साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् । यतेर्द्दर्शनमात्रेण विमुक्तः सर्व्वपातकात् । तीर्थव्रततपोदानसर्व्वयज्ञफलं लभेत् ॥” इत्यवधूताश्रमः । इति महानिर्व्वाणतन्त्रे अष्ट- मोल्लासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्न्यासिन्¦ पु॰ सम् + नि + अस--णिनि।

१ सन्न्यासयुते

२ चतु-{??}श्रमयुते तेषां धर्मभेदेन नामभेदो यथा(
“तीर्थाश्रमवनारण्यगिरिपर्वतसागराः। सरस्वती भा-रती च पुरीति दश कीर्त्तिताः”। तेषां लक्षणानि यथा
“त्रिवेणीसङ्गमे तीर्थे तत्त्वम{??}दिलक्षणे। स्रायात्त-त्त्वार्थभावेन तीर्थनामा

१ स उच्यते। आश्रमग्रहणेप्रोढ आशापाशविवर्जितः। यातायातविनिर्मुक्त एतदा-[Page5220-a+ 38] श्रमलक्षणम्

२ । सुरम्ये निझरे देशे वने वासं क-रोति यः। आशापाशविनिर्मुक्तो वननामा

३ स उच्यते। अर{??}ये संस्थितो नित्यमानन्दनन्दने वने। त्यक्त्वा सर्व-मिदं विश्वमरण्यलक्षणं

४ किल। वासो गिरिवरे नित्यंगाताभ्यासे हि तत्परः। गम्भीराचलबुद्धिश्च गिरिनामा

५ स उच्यते। वमेत् पर्वतमूलेषु प्रोढो यो ध्यानधारणात्। सारात्सारं विजानाति पर्वतः

६ परिकीर्त्तितः। वसेत् सानरगम्भीरो न च रत्नपरिग्रहः। मर्य्यादाश्च नलङ्घेत सागरः

७ परिकीर्त्तितः। स्वरज्ञानवशो नित्यंस्वरवादी कवीश्वरः। संसारसागरे साराभिज्ञो यो हिसरस्वती

८ । विद्याभारेण सम्पूर्णः सर्वभारं परित्यजेत्। दुःखभारं म जानाति भारती

९ परिकीर्त्तिता। ज्ञान-तत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः। परव्रह्मरतो नित्यंपुरोनामा

१० स उच्यते” इति वृहच्छङ्करविजये विद्या-रण्यस्वामिधृतम्।

३ चैत्रे कर्त्तव्यशिवव्रतकर्त्तरि च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्न्यासिन्¦ m. (-सी)
1. The Bra4hman of the fourth order, the religious mendicant.
2. An ascetic, a devotee.
3. One who lays down or deposits. E. सन्न्यास abandonment of the world, इनि aff.

"https://sa.wiktionary.org/w/index.php?title=सन्न्यासिन्&oldid=390180" इत्यस्माद् प्रतिप्राप्तम्