सामग्री पर जाएँ

सन्न्यासी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सन्न्यासी, [न्] पुं, (संन्यासोऽस्यास्तीति । इनिः । सन्न्यासाश्रमविशिष्टः । चतुर्थाश्रमी । तत्पर्य्यायः पाराशरी २ मस्करी ३ परिव्राट् ४ कर्म्मन्दी ५ श्रमणः ६ भिक्षुः ७ । इति जटाधरः ॥ तस्य लक्षणादि यथा । सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च बिभ्रत् भिक्षावृत्तिर्निर्ज्जने तीर्थे वा स्थित्वा केवलमीश्वराराधनं करोति यः स सन्न्यासी । स तु सतुर्व्विधः । कुटीचरः १ बहूदकः २ हंसः ३ परमहंसः ४ । तस्य धर्म्मा यथा, -- “सदन्ने वा कदन्ने वा लोष्ट्रे वा काञ्चने तथा समबुद्धिर्यस्य शश्वत् स सन्न्यासीति कीर्त्तितः ॥ दण्डं कमण्डलुं रक्तवस्त्रमात्रञ्च धारयेत् । नित्यं प्रवासी नेकत्र स सन्न्यासीति कीर्त्तितः ॥ शुद्धाचारद्विजान्नञ्च भुङ्क्ते लोभादिवर्ज्जितः । किन्तु किञ्चिन्न याचेत स सन्न्यासीति कीर्त्तितः न व्यापारी नाश्रमी च सर्व्व कर्म्मविवर्ज्जितः । ध्यायेन्नारायणं शश्वत् स सन्न्यासीति कीर्त्तितः शश्वन्मौनी ब्रह्मचारी सम्भाषालापवर्ज्जितः । सर्व्वं ब्रह्ममयं पश्येत् स सन्न्यासीति कीर्त्तितः ॥ सर्व्वत्र समबुद्धिश्च हिंसामायाविवर्ज्जितः । क्रोधाहङ्काररहितः स सन्न्यासीति कीर्त्तितः ॥ अयाचितोपस्थितञ्च मिष्टामिष्टञ्च भुक्तवान् । न याचेत भक्षणार्थी स सन्नासीति कीर्त्तितः ॥ न च पश्येत् मुखं स्त्रीणां न तिष्ठेत्तत्ममीपतः दारवीमपि योषाञ्च न स्पृशेद् यः स भिक्षुकः । अयं सन्न्यासिनां धर्म्म इत्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥ * ॥ अपि च । “सर्व्वन्यासी हरौ भूप धर्म्मः सन्न्यासिनां ध्रुवम् श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयाः । अतः कर्म्मविधानानि प्रोक्तानि चित्तशुद्धये ॥ नामरूपं बहुविधं तदर्थं कल्पितं मया । ब्रह्मज्ञानं विना देवि कर्म्मसंन्यसनं विना ॥ कुर्व्वन् कल्पशतं कर्म्म न भवेन्मुक्तिभाजनः । कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः ॥ साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् । यतेर्द्दर्शनमात्रेण विमुक्तः सर्व्वपातकात् । तीर्थव्रततपोदानसर्व्वयज्ञफलं लभेत् ॥” इत्यवधूताश्रमः । इति महानिर्व्वाणतन्त्रे अष्ट- मोल्लासः ॥

"https://sa.wiktionary.org/w/index.php?title=सन्न्यासी&oldid=174347" इत्यस्माद् प्रतिप्राप्तम्