सपिण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डः, पुं, (समानः पिण्डो मूलपुरुषो निवापो वा यस्य । समानस्य सः ।) सप्तपुरुषान्त- र्गतज्ञातिः । तत्पर्य्यायः । सनाभिः २ । इत्य- मरः ॥ स च अशौचविवाहदायभेदात् त्रिविधः । तत्राशौचसपिण्डस्य लक्षणं यथा । सप्तपुरु- षान्तर्गतत्वे सति गोत्रैक्ये सति दातृत्वभोक्तृ- त्वान्यतरसम्बन्धेन पिण्डलेपान्यतरवत्त्वम् । दत्त- कन्यानान्तु भर्त्तृसापिण्ड्येन सापिण्ड्यम् । अद- त्तानां पित्रवधित्रिपुरुषसापिण्डम् । विवाह- सपिण्डास्तु । पितृपितृबन्ध्वपेक्षया सप्तमपुरुषा- वधयः मातामहमातृबन्ध्वपेक्षया पञ्चमपु- रुषावधयश्च । यथा, -- “पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतः क्रमात् । सपिण्डता निवर्त्तेत सर्व्ववर्णेष्वयं विधिः ॥” इत्युद्वाहतत्त्वधृतनारदवचनम् ॥ दायसपिण्डास्तु । त्रिपुरुषावधयः । ते च पितृ- पितामहप्रपितामहाः तेषां पुत्त्रपौत्त्रप्रपौत्त्र- दौहित्राः । मातामहप्रमातामहवृद्धप्रमाता- महाः । तत्पुत्त्रपौत्त्रप्रपौत्त्राश्च । इति दाय- भागः ॥ * ॥ अथ सपिण्डादिविचारः । मत्स्य- पुराणम् । “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्ये साप्तपौरुषम् ॥” नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपमोक्तृत्वा- सम्भवात् कथं सपिण्डत्वमिति चेदुच्यते । तेषा- मपि पिण्डलेपयोः सम्बन्धोऽस्ति । तथा च बौधायनः । प्रपितामहः यितामहः पितः स्वयं सोदर्य्यभ्रातरः । सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रो भवतीत्यननैव सर्व्वेषामुदकदाने प्राप्ते यदासप्त- माद्दशमाद्वेत्युक्तं तत् सन्निकर्षतारतम्येना- शौचभेदेऽप्युदककर्म्मसमानार्थमिति । अशौच- मेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्दशाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथा च विष्णु- बृहस्पती । “दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः ॥” ततश्चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी । ततश्च जन्म- नामस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा- विवादचिन्तामण्योर्बृहन्मनुः । “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥ जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥” अत्र समानोदकत्वे द्विविधे । पूर्व्वत्र गोतमः पक्षिणीमसपिण्डे इति । परत्र हारीतः । “मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके ॥” अत्रैव गोत्रजानामहः स्मृतमिति जावाल- वचनम् । ततः परं सर्व्वथा समानोदकतानि- वृत्तेः स्नानमात्रमिति । स्नात्वा शुध्यन्ति गोत्रजा इति बृहस्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डः [sapiṇḍḥ], 'Having the same पिण्ड or funeral rice-ball offering', a kinsman connected by the offering of the funeral rice-ball to the Manes of certain relations; गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् Ms.2.247;5.59; Y.1.52.
