सपिण्डीकरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डीकरणम्, क्ली, (सपिण्ड + कृ + ल्युट् । अभूत- तद्भावे च्विः ।) पूर्णसंवत्सरक्रियमाणपार्व्वणैको- द्दिष्टेतिकर्त्तव्यताकश्राद्धम् । यत्र प्रेतपिण्डस्य पितृपिण्डेन सह मिश्रीकरणम् । यथा, -- “सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः । कुर्य्याच्चत्वारि पात्राणि प्रेतादीनांद्विजोत्तमाः ॥ प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः । ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥ सपिण्डीकरणश्राद्धं देवपूर्व्वं विधीयते । पितॄनावाहयेद्यत्र पृथक् पिण्डञ्च निर्द्दिशेत् ॥ ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक् क्रिया । यस्तु कुर्य्यात् पृथक् पिण्डं पितृहा सोऽपि जायते ॥” इति कूर्म्मपुराणे उपविभागे २२ अध्यायः ॥ * ॥ अन्यच्च । “ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् । सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्व्वणभुग्यतः ॥ वृद्धिपूर्त्तेषु योग्यश्च गृहस्थश्च भवेत्ततः । सपिण्डीकरणं श्राद्धं देवपूर्व्वं निजोजयेत् ॥ पितॄनेवाशयेत्तत्र पृथक् प्रेतं विनिर्द्दिशेत् । गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ तद्वत् सङ्कल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा ये समाना इति द्वाभ्यामाद्यन्तु विभजेत्त्रिधा ॥ चतुर्थस्य पुनः कार्य्यं न कदाचित् यतो भवेत् ततः पितृत्वमापन्नः स चतुर्थस्तदा पुमान् ॥ अग्निस्वात्तादिमध्यन्तु प्राप्नोत्यमृतमुत्तमम् । सपिण्डीकरणादूर्द्ध्वं तस्मै तस्मान्न दीयते ॥” इति मात्स्ये १८ अध्यायः ॥ अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥” इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचार- ज्योतिःशास्त्रादिज्ञानझटितिमरणराष्ट्रोपप्लवा- दिम्लेच्छदेशादिगमनानुसारादेव सपिण्डीकर- णापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादि- गौणकालपरिग्रहः । अथवा यथाकालमित्या- देर्यदहर्व्वा वृद्धिरापद्येत इत्यनेनावश्यकनाम- करणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यक इष्टा पूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् । अतएव लघुहारीतेन । तथैव काम्यं यत् कर्म्म वत्सरात् प्रथमादृते इत्यनेन काम्यस्यापकर्षनिमित्तता नास्तीत्युक्तम् । यदि त्वावश्यकवृद्धिनिमिक्षेनाप- कर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्य- न्तरेऽपि कर्त्तव्यमिति । श्राद्धयिवेकोऽप्येवम् । यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप- कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्- पूर्व्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायाद- पकर्षा । “सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः ।” इति शातातपवचने प्रेतक्रियायाः सपिण्डीकर- णान्तत्व प्रतीयते ॥ * ॥ अत्र कृद्धिनिनित्तं विनः सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरिहारमाह विष्णुधर्म्मोत्तरम् । “कृते सपिण्डीकरणे नरः सवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्- क्षणादेव प्रेतत्वपरीहारः । तदर्थ एवापकर्षात् एवञ्चान्यनिमित्तकापकर्षेवृद्धिकालंप्राप्यप्रेतत्व- परीहारः । तत्कालस्य पूर्णसंवत्सरकालतुल्य- त्वात् । “अर्व्वाक् संवत्सराद्वृद्धौ पूर्णे संवत्सरेऽपि वा ये सपिण्डीकृताः प्रेता न तेषान्तु पृथक्क्रिया ॥ इति शातातपवचनात् । इति श्राद्धतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डीकरण¦ न॰ सह पिण्डेन सपिण्डः ततः अभूततद्भाकेच्वि + कृ--ल्युट्। प्रेतत्वविमोचनाय प्रेतोद्देशेन अर्त्तव्येपित्रादिपिण्डसमन्वयकरणरूपे श्राद्धभेदेसपिण्डीकरणप्रकारस्तत्कालादिकं श्रा॰ त॰ निरूपितं यथा
“अथ सपिण्डीकरणम्। तत्र मोभिलः
“पूर्णे सं-वत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्येत तदह-श्चत्वार्युदकपात्राणि सतिलगन्धपुष्पोदकानि पूरयित्वात्रीणि पितॄणामेन्नं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासि-ञ्चति। ये समानाः समनसः पितरो यमराज्ये तेषांलोकाः स्वधा नमो यज्ञो देवेषु कल्पताम्। ये समानाःसमनसो जीवाजीवेषु मापकाः। तेषां श्रीमयि कल्प-तामस्विन् लोके शतं समाः” इति एतेनैव पिण्डोव्याख्यातः” इति। पूर्णे संवत्सरे इति मुख्यः कल्पः। तदशक्तौ नबमो मासः
“संवत्सरान्ते विजर्जनं नवम-मास्यमित्येके” इति पैठीनसिवचनात्। तदक्तौ षष्ठोमासः। तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-गमे प्रथममासस्य द्वादशभिर्दिभैर्द्वादशमासिकानि श्रा-द्धानि निर्वर्त्त्य त्रयोदशाहः सपिण्डोकरणकालः शूद्रस्यु-द्वादशाहो न तु त्रयोदशाह एव
“मासिकार्थवत् द्वाद-शाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत्कुर्य्यान्मन्त्रवर्ज्{??}हि शूद्राणां द्वादशेऽह्नीति” विष्णुवचनात्। मासिका-र्थवदिति मासिकार्थो मासि मासि क्रियमाणश्राद्धप्रयो-जनं प्रेताप्ययनादि तद्युक्तं द्वादशाहक्रियमाणश्राद्धसित्यर्थः। यत्र त्वेजादशमासाभ्यन्तरेऽधिमासपातस्तत्रत्रयोदशसु दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्दशेऽह्निसपिण्डनं कार्य्यमिति
“संबत्सराभ्यन्तरे यद्यधिमासोभवति तदा मासिकार्थं दिनमेकं वर्द्धयेत्” इति विष्णु-वाक्यात् शूद्रस्य त्रयोदश दिनेषु त्रयोदशं मासिकानित्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात्। एवञ्चवृद्धिमात्रे न दिनवृद्धिरिति मिश्रोक्तं हेवम्। तद्धृत-विष्णुंसूत्रे दिनमेकं वर्द्धयेदिति श्रुतेः। श्वाद्धाधिक्यमाहसत्यव्रतः
“संवत्सरस्य मध्ये तु यदि स्यादधिमासूकः[Page5223-a+ 38] तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत्”। तत्राप्य-शक्तौ प्रथममासस्यैकाह एव द्वादशमासिकसहितसपि-ण्डीकरणकालः।
“मुख्यं श्राद्धं मासिमासि अपर्य्या-प्रावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” इति मरीचिवचनात्। अपर्य्याप्तौ अशक्तौ ऋतुर्मास-द्वयम्। अत्र कल्पे षष्ठमासिकदिने पञ्चममासिकं कृत्वाप्रथमषाण्मासिकं कार्य्यं तदाद्युत्कर्षन्यायात्। न तुतत् पूर्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चपमासिकमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पतिमिश्रः। अपककर्षविषित्तमाहं व्याघ्रः
“आनन्त्यात् कुल-धर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्यद्वादशाहः प्रशस्यते”। एतच्च द्वादशाहपदं शावाशौचान्त-तृतीयदिनमात्रपरमिति प्राचीनमैथिलाः अजहतस्वार्थ-लक्षया स्वजात्युक्ताशौलान्ततृतीयदिनमात्रीपलक्षकमितिश्राद्धपदोप{??}द्धचिन्तामणी। तद्द्वयमप्ययुक्तं
“द्वादशाहेनवा कुर्य्यात्” इति मरीचिवचन
“द्वादशाहे श्राद्धं कृत्वात्रयोदशेऽह्नि वा कुर्य्यात्” इति विष्णुवचनाभ्यामेडवा-क्यतया द्वादशदिनपरत्वात्। कुलधर्माणामिति कुल-धर्मज्योतिरागमादिसिद्धानन्तरषाविनाशपरचक्रभयोत्पन्न-म्लेच्छदेशगमनादिभिर्निमित्तैरशौचापगमे द्वादश दिनानिषोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्यायव्याख्यानात्मरीचिनेव
“एकाहे द्वादशाथ वेति” सामान्यत एव एकाह-विधानाच्च। अतएव एकाहापेक्षया प्राशस्त्यामिधानमपिसङ्गच्छते अतएव प्रथममासस्य एकाह एव द्वादशमासिक-सहितसपिण्डीकरणकाल इति श्राद्धविवेकः। अत्र यानिएकाहकर्त्तव्यतया द्वादशमासिकश्राद्धान्युक्तानि तानि शूद्रेणापि आद्यमासिकदिन एव कार्य्याणि नत्वाद्यमासिकंकृत्वा तत्परदिने एकादश मासिकानीति ज्ञेयम्। एवञ्च तेवामपकर्षे तन्मध्ये तदन्तकाले च कर्त्तव्यतया षण्-माषिकद्वयसपिण्डीकरणापकर्षः सिद्ध्यतीति सुधीभि-र्भाव्यम्। यदहर्वा वृद्धिरिति वृद्धिराशास्यमानं पुंस-वनादि। आपद्येत आसन्ना भवति तद्दितेऽपिसपिण्डीश्चरणम्। तथाहि
“प्रागावर्त्तनादह्नः कालंविद्यात्” इति गोभिलगृह्यसूत्रेण पुंसवनादिकरूप-वृद्धेर्यामद्वयाभ्यन्तरे विधानात् सपिण्डीकरणस्य चाप-राह्णे विधानात्तयोः कालयोरबाधाय वृद्धिपूर्वदिने अप-कर्षः। ननु सपिण्डीकरणस्यापराह्णिककत्वे किं प्रमाण-मिति चेत्
“अपराह्णे तु पैतृकम्” इत्युत्सर्गवचनम्। [Page5223-b+ 38] किञ्च
“यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नी-न्द्रेश्वरसाधर्म्यात्तण्डुलोऽत्र विधीयते” इति छन्दोग-परिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुर्नैकानु-रोधात् पैष्टचरुः
“विरुद्धधर्मसववाये भूयसां स्यात् सधर्म-कत्वम्” इति जैमिनिसूत्रात्। तद्वदत्रापि बहुदेवताकप्रार्वणानुरोधात्
“एकोद्दिष्टविधानेन कार्यन्तदपि पार्थिव!” इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्यतापरंन तु तत्कालपरम्। तथा च परिशिष्टप्रकाशघृतम्
“श्राद्धद्वयमुपक्रम्य कुर्वीत सहपिण्डताम्। तवोःपार्वणवत् पूर्वमेकोद्दिष्टमथापरम्” इति। एवञ्च शुद्धि-तत्त्व लखितस्यमन्तकोपाख्यानवत् वृद्धिं निश्चित्य कृतंसपिण्डीकरणं तदानीं विघ्नेन वृद्ध्यभावेऽपि वृद्ध्या-रम्भ{??}लान्तरं पूर्णसंवत्सरं वा प्राप्य पितृत्वप्रापकमितिन सपिण्डनान्तरम्। अत्र
“श्वःकर्त्तास्मीति निश्चित्यदाता विपास्निमन्त्रयेत्। ” इतिवन्निश्चित्येति उत्कटं-कोटिकसम्भावनोपलक्षणं भविंष्यन्निमित्तस्य कर्मणः प्रत्यू-हार्हत्वात्{??} एवञ्च वृद्धिश्राद्धं यदर्थं कृतं तत् कर्मचेत् विघ्नात्तद्दिने न क्रियते तदा दिनान्तरे तत् कर्मणिक्रियमाणे तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव।
“प्रधानस्याक्रिया यत्र साङ्ग्रं तत्क्रियते पुनः। तदड्ग-स्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया”। इति छन्दोग-परिशिष्टेन साङ्गकरणाभिधानात्। हेमाद्रिधृतं
“पूर्णे-संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम्। तेनैव चसपिण्डत्वं तेनैवाव्दिकमिष्यते। ” अत्र पूर्णसंवत्सर-क्रियमाणश्राद्धाद् यथोभयनिर्वाहः तथापकृष्ट-सपिण्डनादप्युभयनिर्वाहान्न पूर्णसंवत्सरे आव्दिका-न्तरं कार्य्यम्”। तत्रायं विशेषः तत्रोक्तो यथा
“एवञ्च पार्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्डविधा-नात् तद्विकृतावपि सपिण्डीकरणे तन्नियमात् यद्यपिशेषाभावेऽपि पिण्डनिवृत्तिरायाति तथापि
“यथोक्त-वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत्। यवानामिव गो-धूमा व्रीहीणामिव शालयः” इति छन्दोगपरिशिष्ट-वचनात्
“मुख्याभावेऽपि प्रतिनिधिः शास्त्रार्थः” इतिन्यायाच्च मध्वाद्यमावे गुडादिग्रहणवत् द्रव्यान्तरेणापिपिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय। अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात्
“सहपिण्डक्रिया-याम्” इति मनूक्तेः पिण्डस्य पेतपिण्डेन सह मिश्री-करणं यत्रेति सपिण्डीकरणसमाख्यासिद्धर्थं सुतां तत्र[Page5224-a+ 38] तथाचरणं प्रतिपत्तिरूपकर्माङ्ग एव प्रतिपाद्याभावे तन्नि-वृत्तिः पशुयागे
“लाहित निरस्यति सकृन्निरस्यति” इत्या-दावुक्ता। अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञोयत्र वसति इति यज्ञवास्तुसमाख्यानुरोधेनास्तृतकुश-विनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाष्येउक्तः
“प्राक् स्विष्टिकृत आवापः” इति गोभिलसूत्रस्यव्याख्यानेऽपि आउप्यते इत्यावापः प्रधानहोमः स तुस्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः। एवञ्च मुख्यहोमेत्वकृते यदि चरुर्नष्टो दुष्टो वा भवति तदान्यः पाच्यःमुख्ये कृते चेन्नाशदुष्टी तदाज्यैनैव स्विष्टिकृद्धोम इतिसरला। एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-मिश्रोक्तं हेयम्। एतेनार्घ्यदानविधानेन पिण्डमिश्रण-प्रकारो व्याख्यात उक्तः”।
“पितरि पूर्वं मृते तद्वषाभ्यन्तरे पितामहे प्रपिरामहंमृते यथा कर्त्तव्यं तथाह छन्दोगपरिशिष्टे कात्यायनः
“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम्। असं-स्कृतेन संस्कार्य्यौ पूर्व्वौ पात्रप्रपौत्रकैः। पितरं तत्रसंस्कुर्य्यादिति कात्यायनीऽव्रवीत्। पापिष्ठमपि पुद्धेनशुद्धं पापकृतापि वा। पितामहेन पितरं कुर्य्यादितिविनिश्चयः”। पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपिपितामहप्रपितामहयोः सत्त्वे प्रतिमासविहितं पार्बणंपितृवृद्धप्रपितामहातिवृद्धप्रपितामहानां कर्त्तव्यं न तुतयोः सपिण्डीकरणापेक्षा कार्य्या मनु सपिण्डनेनासंस्कृ-ताभ्यां सह पिण्डैः कथं सपिण्डनाख्यसंस्कारस्तस्मात्तदर्थंतयोः सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्डनमुत्कर्मणीयमित्यत आह असंस्कृतेनेति। उत्कषी-पकर्षौ न कार्य्यावित्यनेन वचनेनोक्तं कथमसंस्कृतेन सहसंस्कार इत्यत्राह पापिष्ठमपीति पापिष्ठमकृतसपिण्डी-करण शुद्धेन कृतसपिण्डीकरणेन पितामहेन पापकृताअकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति शास्त्रनिश्चयः। अतो वचनबधाददोष इति तात्पर्य्यम्। अत्र तु प्रेतीभूतपितामहेन पितुः सपिण्डने पितामहैकोद्दिष्ठमेव।
“अस-पिणडकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्” इति प्रागुक्तजाबालवचनात्। एवमन्यत्रापि बोध्यं वृद्धप्रपितामहस्य प्रेतत्वेतेन मह न कार्य्यमिति तात्पर्य्यम्। अत्र मातुः स-पिण्डने श्वशुरार्य्यश्वशुरयोः पिण्डो कुशैराच्छाद्यौ। तथाच गार्ग्यः
“प्रतिनैकेन कर्त्तव्यं सपिण्डोकरणं स्त्रियाः। सा गता हि मृतैकत्वं कुशैरन्तयन् पितृन्। श्वशुर-[Page5224-b+ 38] स्याग्रतो यस्माच्छिरःपच्छादनक्रिया। पुत्रैर्दर्भेण साकार्य्या मातुरभ्युदयार्थिभिः”। अन्तरयन्तीत्यर्थे अन्तरय-न्निति लिङ्गव्यत्ययेन पुंस्त्वमिति हलायुधः। पराचनंगोभिलश्राद्धसूत्रभाष्यकृतापि लिखितम्। अतएव प्रव्र-जिते पतिते वा पितरि मृतेऽपि न पितामहादिभि-र्मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव।
“स्वेनभर्त्रा सहैवास्याः सपिण्डोकरणं स्त्रियाः। एकत्वं सागता यस्माच्चरुमन्त्राहुतिव्रतैः। तस्मिन् सति सुताःकुर्य्युः पिताभह्या सहैव तु”। इत्यत्र तस्मिन् सतीतिश्राद्धानर्हभर्त्रुपलक्षणम्। अतएव
“तस्याञ्चैव तु जीवन्त्यांतस्याः श्वश्रेति निश्चयः” इति लघुहारीतन श्वश्रूजी-वने तस्याः श्वश्र्वोक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम्। एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन
“ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा” इति मन्त्रोक पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्य दयिके मातृ-पक्षे श्रीदत्तादिभिमन्त्रान्तरं लिखितं न तु ये चात्रत्वा-मिति वस्तुतस्तु आभ्युदयिके छन्दोगानां मातृपक्ष एवनास्तीति वक्ष्यते”। लघुहारीतः
“सपिण्डीकरणान्तानि यानि श्राद्धानिषोडश। पृथङ्नैव सुताः कुर्य्युः” पृथभ्द्रव्या अपिक्वचित्। प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश। यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः”। पृथग्-द्रव्या अपि विभक्तधना अपि पृथक् न कुर्य्युः सुतरा-मपृथग्धनाः पृथक् न कुर्य्यु किन्त्वपृथक् कुर्युः अत्रविशेषयति मरीचिः।
“मृते पितरि पुत्रेण क्रियाकार्य्या विधानतः बहवः स्युर्यदा पुत्राः पितुरेकत्र-वासिनः। सर्वेषान्तु प्रतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्”। पुत्रेणत्य-विशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य सालात् कर्त्त-व्यतामाह वहव इति। ज्येष्ठेनापि सर्वेषां भ्रातॄणांमत्करणेनैव करणं भवतु इति मतं ज्ञानं कृत्वा विभक्त-त्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वेरेव कृतमेव भवेत्। तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वाकर्त्तव्यम्। यदि तेन तन्न परिशुध्यते तदा स ऋणीभवति प्रत्यवायी च भवतीति। न तु तेन श्राद्धान्तरंकर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम्।
“पृथङ्नैव सुताःकर्यरित्यनेन पृथक्करणस्य पर्य्युदस्त नधिकारात्। यथाकालमिति अशौचान्तद्वितीयदिनद्वादसमासमृतति-[Page5225-a+ 38] थ्येकाहन्यूनषण्मासद्वितीयसंवत्सरेषु। न च विधान-सामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्तत्तत्कालानां द्वादशाहाद्यपेक्षया प्राधान्यबोधनार्थत्वात्अत्र
“आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते” इति व्याघ्र-वचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादिज्ञात-झटितिमरणराष्ट्रोपप्लवादिम्लेच्छदेशादिगममानुसारादेवशपिण्डीकरणापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासा-दिनौणकालपरिग्रहः। अथ वा यथाकालमित्यादेर्यदहर्वावृद्धिरापद्येतेत्यनेभावश्यकनापकरणादिवृद्ध्यर्थमेवापकर्षोन त्वनावश्यकेष्टपूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम्। अतएव लघुहारीतेन
“तथैव काम्यं यत् कर्म वत्सरात्प्रथमावृते” इत्यनेन कास्यस्यापकर्षनिमित्तता नास्तीत्युक्तम्पदि त्वाव{??}कवृद्धिनिमित्तेनापकर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवंयद्यपि गोमिलसूत्रादौ सपिण्डीकरणस्यैवापकर्षः प्रागुक्त-स्तथापि सपिण्डीकरणापकर्षे तत्पूर्वकर्त्तव्यश्राद्धानामपितदादितदन्तन्यायादपकर्षः।
“सपिण्डीकरणान्ता तु ज्ञेयाप्रेतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाःसपिण्डीकरणान्तत्वं प्रतीयते। अत्र वृद्धिनिमित्तं विनासपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरी-हारमाह विष्णुधर्मोत्तरम्
“कृते सपिण्डोकरणे नरःसंवत्सरात् परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षणादेवप्रेतत्वपरीहारः तदर्थएवापकर्षात् एवञ्चान्यनिमित्ताप-कर्षे वृद्धिकालं प्राप्य प्रेतत्वपरीहारः तत्कालस्य पूर्ण-संवत्सरकालतुल्यत्वात्।
“अर्वाक् संवत्सरात् वृद्धौपूर्णे संवत्सरेऽपि वा। ये सपिण्डीकृताः प्रेता नतेषान्तु पृथकक्रिया” इति शातातपवचनाति”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डीकरण¦ n. (-णं)
1. Offering food to the deceased relatives called Sapin4d4as: to be performed at the end of a full year after the death of a relative; but can be performed on the twelfth day after death by Bra4hmins only, on some special occasions.
2. Investing a person with the rights of relationship, indicated by offering the funeral cake. E. सपिण्ड, करण making, च्वि aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डीकरण/ सपिण्डी--करण n. = सपिण्डनS3a1n3khGr2. Ya1jn5. etc.
सपिण्डीकरण/ सपिण्डी--करण n. N. of wk. (also 732427 ण-खण्डनn. 732427.1 णा-न्त-कर्मन्n. and 732427.2 णा-न्-वष्टकाf. )
