सामग्री पर जाएँ

सपिण्डीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सपिण्डीकरणम्, क्ली, (सपिण्ड + कृ + ल्युट् । अभूत- तद्भावे च्विः ।) पूर्णसंवत्सरक्रियमाणपार्व्वणैको- द्दिष्टेतिकर्त्तव्यताकश्राद्धम् । यत्र प्रेतपिण्डस्य पितृपिण्डेन सह मिश्रीकरणम् । यथा, -- “सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः । कुर्य्याच्चत्वारि पात्राणि प्रेतादीनांद्विजोत्तमाः ॥ प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः । ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥ सपिण्डीकरणश्राद्धं देवपूर्व्वं विधीयते । पितॄनावाहयेद्यत्र पृथक् पिण्डञ्च निर्द्दिशेत् ॥ ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक् क्रिया । यस्तु कुर्य्यात् पृथक् पिण्डं पितृहा सोऽपि जायते ॥” इति कूर्म्मपुराणे उपविभागे २२ अध्यायः ॥ * ॥ अन्यच्च । “ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् । सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्व्वणभुग्यतः ॥ वृद्धिपूर्त्तेषु योग्यश्च गृहस्थश्च भवेत्ततः । सपिण्डीकरणं श्राद्धं देवपूर्व्वं निजोजयेत् ॥ पितॄनेवाशयेत्तत्र पृथक् प्रेतं विनिर्द्दिशेत् । गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ तद्वत् सङ्कल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा ये समाना इति द्वाभ्यामाद्यन्तु विभजेत्त्रिधा ॥ चतुर्थस्य पुनः कार्य्यं न कदाचित् यतो भवेत् ततः पितृत्वमापन्नः स चतुर्थस्तदा पुमान् ॥ अग्निस्वात्तादिमध्यन्तु प्राप्नोत्यमृतमुत्तमम् । सपिण्डीकरणादूर्द्ध्वं तस्मै तस्मान्न दीयते ॥” इति मात्स्ये १८ अध्यायः ॥ अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥” इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचार- ज्योतिःशास्त्रादिज्ञानझटितिमरणराष्ट्रोपप्लवा- दिम्लेच्छदेशादिगमनानुसारादेव सपिण्डीकर- णापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादि- गौणकालपरिग्रहः । अथवा यथाकालमित्या- देर्यदहर्व्वा वृद्धिरापद्येत इत्यनेनावश्यकनाम- करणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यक इष्टा पूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् । अतएव लघुहारीतेन । तथैव काम्यं यत् कर्म्म वत्सरात् प्रथमादृते इत्यनेन काम्यस्यापकर्षनिमित्तता नास्तीत्युक्तम् । यदि त्वावश्यकवृद्धिनिमिक्षेनाप- कर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्य- न्तरेऽपि कर्त्तव्यमिति । श्राद्धयिवेकोऽप्येवम् । यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप- कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्- पूर्व्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायाद- पकर्षा । “सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः ।” इति शातातपवचने प्रेतक्रियायाः सपिण्डीकर- णान्तत्व प्रतीयते ॥ * ॥ अत्र कृद्धिनिनित्तं विनः सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरिहारमाह विष्णुधर्म्मोत्तरम् । “कृते सपिण्डीकरणे नरः सवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्- क्षणादेव प्रेतत्वपरीहारः । तदर्थ एवापकर्षात् एवञ्चान्यनिमित्तकापकर्षेवृद्धिकालंप्राप्यप्रेतत्व- परीहारः । तत्कालस्य पूर्णसंवत्सरकालतुल्य- त्वात् । “अर्व्वाक् संवत्सराद्वृद्धौ पूर्णे संवत्सरेऽपि वा ये सपिण्डीकृताः प्रेता न तेषान्तु पृथक्क्रिया ॥ इति शातातपवचनात् । इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सपिण्डीकरण¦ न॰ सह पिण्डेन सपिण्डः ततः अभूततद्भाकेच्वि + कृ--ल्युट्। प्रेतत्वविमोचनाय प्रेतोद्देशेन अर्त्तव्येपित्रादिपिण्डसमन्वयकरणरूपे श्राद्धभेदेसपिण्डीकरणप्रकारस्तत्कालादिकं श्रा॰ त॰ निरूपितं यथा
“अथ सपिण्डीकरणम्। तत्र मोभिलः
“पूर्णे सं-वत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्येत तदह-श्चत्वार्युदकपात्राणि सतिलगन्धपुष्पोदकानि पूरयित्वात्रीणि पितॄणामेन्नं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासि-ञ्चति। ये समानाः समनसः पितरो यमराज्ये तेषांलोकाः स्वधा नमो यज्ञो देवेषु कल्पताम्। ये समानाःसमनसो जीवाजीवेषु मापकाः। तेषां श्रीमयि कल्प-तामस्विन् लोके शतं समाः” इति एतेनैव पिण्डोव्याख्यातः” इति। पूर्णे संवत्सरे इति मुख्यः कल्पः। तदशक्तौ नबमो मासः
“संवत्सरान्ते विजर्जनं नवम-मास्यमित्येके” इति पैठीनसिवचनात्। तदक्तौ षष्ठोमासः। तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-गमे प्रथममासस्य द्वादशभिर्दिभैर्द्वादशमासिकानि श्रा-द्धानि निर्वर्त्त्य त्रयोदशाहः सपिण्डोकरणकालः शूद्रस्यु-द्वादशाहो न तु त्रयोदशाह एव
“मासिकार्थवत् द्वाद-शाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत्कुर्य्यान्मन्त्रवर्ज्{??}हि शूद्राणां द्वादशेऽह्नीति” विष्णुवचनात्। मासिका-र्थवदिति मासिकार्थो मासि मासि क्रियमाणश्राद्धप्रयो-जनं प्रेताप्ययनादि तद्युक्तं द्वादशाहक्रियमाणश्राद्धसित्यर्थः। यत्र त्वेजादशमासाभ्यन्तरेऽधिमासपातस्तत्रत्रयोदशसु दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्दशेऽह्निसपिण्डनं कार्य्यमिति
“संबत्सराभ्यन्तरे यद्यधिमासोभवति तदा मासिकार्थं दिनमेकं वर्द्धयेत्” इति विष्णु-वाक्यात् शूद्रस्य त्रयोदश दिनेषु त्रयोदशं मासिकानित्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात्। एवञ्चवृद्धिमात्रे न दिनवृद्धिरिति मिश्रोक्तं हेवम्। तद्धृत-विष्णुंसूत्रे दिनमेकं वर्द्धयेदिति श्रुतेः। श्वाद्धाधिक्यमाहसत्यव्रतः
“संवत्सरस्य मध्ये तु यदि स्यादधिमासूकः[Page5223-a+ 38] तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत्”। तत्राप्य-शक्तौ प्रथममासस्यैकाह एव द्वादशमासिकसहितसपि-ण्डीकरणकालः।
“मुख्यं श्राद्धं मासिमासि अपर्य्या-प्रावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” इति मरीचिवचनात्। अपर्य्याप्तौ अशक्तौ ऋतुर्मास-द्वयम्। अत्र कल्पे षष्ठमासिकदिने पञ्चममासिकं कृत्वाप्रथमषाण्मासिकं कार्य्यं तदाद्युत्कर्षन्यायात्। न तुतत् पूर्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चपमासिकमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पतिमिश्रः। अपककर्षविषित्तमाहं व्याघ्रः
“आनन्त्यात् कुल-धर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्यद्वादशाहः प्रशस्यते”। एतच्च द्वादशाहपदं शावाशौचान्त-तृतीयदिनमात्रपरमिति प्राचीनमैथिलाः अजहतस्वार्थ-लक्षया स्वजात्युक्ताशौलान्ततृतीयदिनमात्रीपलक्षकमितिश्राद्धपदोप{??}द्धचिन्तामणी। तद्द्वयमप्ययुक्तं
“द्वादशाहेनवा कुर्य्यात्” इति मरीचिवचन
“द्वादशाहे श्राद्धं कृत्वात्रयोदशेऽह्नि वा कुर्य्यात्” इति विष्णुवचनाभ्यामेडवा-क्यतया द्वादशदिनपरत्वात्। कुलधर्माणामिति कुल-धर्मज्योतिरागमादिसिद्धानन्तरषाविनाशपरचक्रभयोत्पन्न-म्लेच्छदेशगमनादिभिर्निमित्तैरशौचापगमे द्वादश दिनानिषोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्यायव्याख्यानात्मरीचिनेव
“एकाहे द्वादशाथ वेति” सामान्यत एव एकाह-विधानाच्च। अतएव एकाहापेक्षया प्राशस्त्यामिधानमपिसङ्गच्छते अतएव प्रथममासस्य एकाह एव द्वादशमासिक-सहितसपिण्डीकरणकाल इति श्राद्धविवेकः। अत्र यानिएकाहकर्त्तव्यतया द्वादशमासिकश्राद्धान्युक्तानि तानि शूद्रेणापि आद्यमासिकदिन एव कार्य्याणि नत्वाद्यमासिकंकृत्वा तत्परदिने एकादश मासिकानीति ज्ञेयम्। एवञ्च तेवामपकर्षे तन्मध्ये तदन्तकाले च कर्त्तव्यतया षण्-माषिकद्वयसपिण्डीकरणापकर्षः सिद्ध्यतीति सुधीभि-र्भाव्यम्। यदहर्वा वृद्धिरिति वृद्धिराशास्यमानं पुंस-वनादि। आपद्येत आसन्ना भवति तद्दितेऽपिसपिण्डीश्चरणम्। तथाहि
“प्रागावर्त्तनादह्नः कालंविद्यात्” इति गोभिलगृह्यसूत्रेण पुंसवनादिकरूप-वृद्धेर्यामद्वयाभ्यन्तरे विधानात् सपिण्डीकरणस्य चाप-राह्णे विधानात्तयोः कालयोरबाधाय वृद्धिपूर्वदिने अप-कर्षः। ननु सपिण्डीकरणस्यापराह्णिककत्वे किं प्रमाण-मिति चेत्
“अपराह्णे तु पैतृकम्” इत्युत्सर्गवचनम्। [Page5223-b+ 38] किञ्च
“यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नी-न्द्रेश्वरसाधर्म्यात्तण्डुलोऽत्र विधीयते” इति छन्दोग-परिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुर्नैकानु-रोधात् पैष्टचरुः
“विरुद्धधर्मसववाये भूयसां स्यात् सधर्म-कत्वम्” इति जैमिनिसूत्रात्। तद्वदत्रापि बहुदेवताकप्रार्वणानुरोधात्
“एकोद्दिष्टविधानेन कार्यन्तदपि पार्थिव!” इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्यतापरंन तु तत्कालपरम्। तथा च परिशिष्टप्रकाशघृतम्
“श्राद्धद्वयमुपक्रम्य कुर्वीत सहपिण्डताम्। तवोःपार्वणवत् पूर्वमेकोद्दिष्टमथापरम्” इति। एवञ्च शुद्धि-तत्त्व लखितस्यमन्तकोपाख्यानवत् वृद्धिं निश्चित्य कृतंसपिण्डीकरणं तदानीं विघ्नेन वृद्ध्यभावेऽपि वृद्ध्या-रम्भ{??}लान्तरं पूर्णसंवत्सरं वा प्राप्य पितृत्वप्रापकमितिन सपिण्डनान्तरम्। अत्र
“श्वःकर्त्तास्मीति निश्चित्यदाता विपास्निमन्त्रयेत्। ” इतिवन्निश्चित्येति उत्कटं-कोटिकसम्भावनोपलक्षणं भविंष्यन्निमित्तस्य कर्मणः प्रत्यू-हार्हत्वात्{??} एवञ्च वृद्धिश्राद्धं यदर्थं कृतं तत् कर्मचेत् विघ्नात्तद्दिने न क्रियते तदा दिनान्तरे तत् कर्मणिक्रियमाणे तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव।
“प्रधानस्याक्रिया यत्र साङ्ग्रं तत्क्रियते पुनः। तदड्ग-स्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया”। इति छन्दोग-परिशिष्टेन साङ्गकरणाभिधानात्। हेमाद्रिधृतं
“पूर्णे-संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम्। तेनैव चसपिण्डत्वं तेनैवाव्दिकमिष्यते। ” अत्र पूर्णसंवत्सर-क्रियमाणश्राद्धाद् यथोभयनिर्वाहः तथापकृष्ट-सपिण्डनादप्युभयनिर्वाहान्न पूर्णसंवत्सरे आव्दिका-न्तरं कार्य्यम्”। तत्रायं विशेषः तत्रोक्तो यथा
“एवञ्च पार्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्डविधा-नात् तद्विकृतावपि सपिण्डीकरणे तन्नियमात् यद्यपिशेषाभावेऽपि पिण्डनिवृत्तिरायाति तथापि
“यथोक्त-वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत्। यवानामिव गो-धूमा व्रीहीणामिव शालयः” इति छन्दोगपरिशिष्ट-वचनात्
“मुख्याभावेऽपि प्रतिनिधिः शास्त्रार्थः” इतिन्यायाच्च मध्वाद्यमावे गुडादिग्रहणवत् द्रव्यान्तरेणापिपिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय। अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात्
“सहपिण्डक्रिया-याम्” इति मनूक्तेः पिण्डस्य पेतपिण्डेन सह मिश्री-करणं यत्रेति सपिण्डीकरणसमाख्यासिद्धर्थं सुतां तत्र[Page5224-a+ 38] तथाचरणं प्रतिपत्तिरूपकर्माङ्ग एव प्रतिपाद्याभावे तन्नि-वृत्तिः पशुयागे
“लाहित निरस्यति सकृन्निरस्यति” इत्या-दावुक्ता। अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञोयत्र वसति इति यज्ञवास्तुसमाख्यानुरोधेनास्तृतकुश-विनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाष्येउक्तः
“प्राक् स्विष्टिकृत आवापः” इति गोभिलसूत्रस्यव्याख्यानेऽपि आउप्यते इत्यावापः प्रधानहोमः स तुस्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः। एवञ्च मुख्यहोमेत्वकृते यदि चरुर्नष्टो दुष्टो वा भवति तदान्यः पाच्यःमुख्ये कृते चेन्नाशदुष्टी तदाज्यैनैव स्विष्टिकृद्धोम इतिसरला। एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-मिश्रोक्तं हेयम्। एतेनार्घ्यदानविधानेन पिण्डमिश्रण-प्रकारो व्याख्यात उक्तः”।
“पितरि पूर्वं मृते तद्वषाभ्यन्तरे पितामहे प्रपिरामहंमृते यथा कर्त्तव्यं तथाह छन्दोगपरिशिष्टे कात्यायनः
“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम्। असं-स्कृतेन संस्कार्य्यौ पूर्व्वौ पात्रप्रपौत्रकैः। पितरं तत्रसंस्कुर्य्यादिति कात्यायनीऽव्रवीत्। पापिष्ठमपि पुद्धेनशुद्धं पापकृतापि वा। पितामहेन पितरं कुर्य्यादितिविनिश्चयः”। पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपिपितामहप्रपितामहयोः सत्त्वे प्रतिमासविहितं पार्बणंपितृवृद्धप्रपितामहातिवृद्धप्रपितामहानां कर्त्तव्यं न तुतयोः सपिण्डीकरणापेक्षा कार्य्या मनु सपिण्डनेनासंस्कृ-ताभ्यां सह पिण्डैः कथं सपिण्डनाख्यसंस्कारस्तस्मात्तदर्थंतयोः सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्डनमुत्कर्मणीयमित्यत आह असंस्कृतेनेति। उत्कषी-पकर्षौ न कार्य्यावित्यनेन वचनेनोक्तं कथमसंस्कृतेन सहसंस्कार इत्यत्राह पापिष्ठमपीति पापिष्ठमकृतसपिण्डी-करण शुद्धेन कृतसपिण्डीकरणेन पितामहेन पापकृताअकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति शास्त्रनिश्चयः। अतो वचनबधाददोष इति तात्पर्य्यम्। अत्र तु प्रेतीभूतपितामहेन पितुः सपिण्डने पितामहैकोद्दिष्ठमेव।
“अस-पिणडकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्” इति प्रागुक्तजाबालवचनात्। एवमन्यत्रापि बोध्यं वृद्धप्रपितामहस्य प्रेतत्वेतेन मह न कार्य्यमिति तात्पर्य्यम्। अत्र मातुः स-पिण्डने श्वशुरार्य्यश्वशुरयोः पिण्डो कुशैराच्छाद्यौ। तथाच गार्ग्यः
“प्रतिनैकेन कर्त्तव्यं सपिण्डोकरणं स्त्रियाः। सा गता हि मृतैकत्वं कुशैरन्तयन् पितृन्। श्वशुर-[Page5224-b+ 38] स्याग्रतो यस्माच्छिरःपच्छादनक्रिया। पुत्रैर्दर्भेण साकार्य्या मातुरभ्युदयार्थिभिः”। अन्तरयन्तीत्यर्थे अन्तरय-न्निति लिङ्गव्यत्ययेन पुंस्त्वमिति हलायुधः। पराचनंगोभिलश्राद्धसूत्रभाष्यकृतापि लिखितम्। अतएव प्रव्र-जिते पतिते वा पितरि मृतेऽपि न पितामहादिभि-र्मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव।
“स्वेनभर्त्रा सहैवास्याः सपिण्डोकरणं स्त्रियाः। एकत्वं सागता यस्माच्चरुमन्त्राहुतिव्रतैः। तस्मिन् सति सुताःकुर्य्युः पिताभह्या सहैव तु”। इत्यत्र तस्मिन् सतीतिश्राद्धानर्हभर्त्रुपलक्षणम्। अतएव
“तस्याञ्चैव तु जीवन्त्यांतस्याः श्वश्रेति निश्चयः” इति लघुहारीतन श्वश्रूजी-वने तस्याः श्वश्र्वोक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम्। एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन
“ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा” इति मन्त्रोक पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्य दयिके मातृ-पक्षे श्रीदत्तादिभिमन्त्रान्तरं लिखितं न तु ये चात्रत्वा-मिति वस्तुतस्तु आभ्युदयिके छन्दोगानां मातृपक्ष एवनास्तीति वक्ष्यते”। लघुहारीतः
“सपिण्डीकरणान्तानि यानि श्राद्धानिषोडश। पृथङ्नैव सुताः कुर्य्युः” पृथभ्द्रव्या अपिक्वचित्। प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश। यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः”। पृथग्-द्रव्या अपि विभक्तधना अपि पृथक् न कुर्य्युः सुतरा-मपृथग्धनाः पृथक् न कुर्य्यु किन्त्वपृथक् कुर्युः अत्रविशेषयति मरीचिः।
“मृते पितरि पुत्रेण क्रियाकार्य्या विधानतः बहवः स्युर्यदा पुत्राः पितुरेकत्र-वासिनः। सर्वेषान्तु प्रतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्”। पुत्रेणत्य-विशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य सालात् कर्त्त-व्यतामाह वहव इति। ज्येष्ठेनापि सर्वेषां भ्रातॄणांमत्करणेनैव करणं भवतु इति मतं ज्ञानं कृत्वा विभक्त-त्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वेरेव कृतमेव भवेत्। तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वाकर्त्तव्यम्। यदि तेन तन्न परिशुध्यते तदा स ऋणीभवति प्रत्यवायी च भवतीति। न तु तेन श्राद्धान्तरंकर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम्।
“पृथङ्नैव सुताःकर्यरित्यनेन पृथक्करणस्य पर्य्युदस्त नधिकारात्। यथाकालमिति अशौचान्तद्वितीयदिनद्वादसमासमृतति-[Page5225-a+ 38] थ्येकाहन्यूनषण्मासद्वितीयसंवत्सरेषु। न च विधान-सामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्तत्तत्कालानां द्वादशाहाद्यपेक्षया प्राधान्यबोधनार्थत्वात्अत्र
“आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते” इति व्याघ्र-वचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादिज्ञात-झटितिमरणराष्ट्रोपप्लवादिम्लेच्छदेशादिगममानुसारादेवशपिण्डीकरणापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासा-दिनौणकालपरिग्रहः। अथ वा यथाकालमित्यादेर्यदहर्वावृद्धिरापद्येतेत्यनेभावश्यकनापकरणादिवृद्ध्यर्थमेवापकर्षोन त्वनावश्यकेष्टपूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम्। अतएव लघुहारीतेन
“तथैव काम्यं यत् कर्म वत्सरात्प्रथमावृते” इत्यनेन कास्यस्यापकर्षनिमित्तता नास्तीत्युक्तम्पदि त्वाव{??}कवृद्धिनिमित्तेनापकर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवंयद्यपि गोमिलसूत्रादौ सपिण्डीकरणस्यैवापकर्षः प्रागुक्त-स्तथापि सपिण्डीकरणापकर्षे तत्पूर्वकर्त्तव्यश्राद्धानामपितदादितदन्तन्यायादपकर्षः।
“सपिण्डीकरणान्ता तु ज्ञेयाप्रेतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाःसपिण्डीकरणान्तत्वं प्रतीयते। अत्र वृद्धिनिमित्तं विनासपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरी-हारमाह विष्णुधर्मोत्तरम्
“कृते सपिण्डोकरणे नरःसंवत्सरात् परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षणादेवप्रेतत्वपरीहारः तदर्थएवापकर्षात् एवञ्चान्यनिमित्ताप-कर्षे वृद्धिकालं प्राप्य प्रेतत्वपरीहारः तत्कालस्य पूर्ण-संवत्सरकालतुल्यत्वात्।
“अर्वाक् संवत्सरात् वृद्धौपूर्णे संवत्सरेऽपि वा। ये सपिण्डीकृताः प्रेता नतेषान्तु पृथकक्रिया” इति शातातपवचनाति”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सपिण्डीकरण¦ n. (-णं)
1. Offering food to the deceased relatives called Sapin4d4as: to be performed at the end of a full year after the death of a relative; but can be performed on the twelfth day after death by Bra4hmins only, on some special occasions.
2. Investing a person with the rights of relationship, indicated by offering the funeral cake. E. सपिण्ड, करण making, च्वि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सपिण्डीकरण/ सपिण्डी--करण n. = सपिण्डनS3a1n3khGr2. Ya1jn5. etc.

सपिण्डीकरण/ सपिण्डी--करण n. N. of wk. (also 732427 ण-खण्डनn. 732427.1 णा-न्त-कर्मन्n. and 732427.2 णा-न्-वष्टकाf. )

"https://sa.wiktionary.org/w/index.php?title=सपिण्डीकरण&oldid=390766" इत्यस्माद् प्रतिप्राप्तम्