सपिण्डीकरणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपिण्डीकरणम्, क्ली, (सपिण्ड + कृ + ल्युट् । अभूत- तद्भावे च्विः ।) पूर्णसंवत्सरक्रियमाणपार्व्वणैको- द्दिष्टेतिकर्त्तव्यताकश्राद्धम् । यत्र प्रेतपिण्डस्य पितृपिण्डेन सह मिश्रीकरणम् । यथा, -- “सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः । कुर्य्याच्चत्वारि पात्राणि प्रेतादीनांद्विजोत्तमाः ॥ प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः । ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥ सपिण्डीकरणश्राद्धं देवपूर्व्वं विधीयते । पितॄनावाहयेद्यत्र पृथक् पिण्डञ्च निर्द्दिशेत् ॥ ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक् क्रिया । यस्तु कुर्य्यात् पृथक् पिण्डं पितृहा सोऽपि जायते ॥” इति कूर्म्मपुराणे उपविभागे २२ अध्यायः ॥ * ॥ अन्यच्च । “ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् । सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्व्वणभुग्यतः ॥ वृद्धिपूर्त्तेषु योग्यश्च गृहस्थश्च भवेत्ततः । सपिण्डीकरणं श्राद्धं देवपूर्व्वं निजोजयेत् ॥ पितॄनेवाशयेत्तत्र पृथक् प्रेतं विनिर्द्दिशेत् । गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ तद्वत् सङ्कल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा ये समाना इति द्वाभ्यामाद्यन्तु विभजेत्त्रिधा ॥ चतुर्थस्य पुनः कार्य्यं न कदाचित् यतो भवेत् ततः पितृत्वमापन्नः स चतुर्थस्तदा पुमान् ॥ अग्निस्वात्तादिमध्यन्तु प्राप्नोत्यमृतमुत्तमम् । सपिण्डीकरणादूर्द्ध्वं तस्मै तस्मान्न दीयते ॥” इति मात्स्ये १८ अध्यायः ॥ अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥” इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचार- ज्योतिःशास्त्रादिज्ञानझटितिमरणराष्ट्रोपप्लवा- दिम्लेच्छदेशादिगमनानुसारादेव सपिण्डीकर- णापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादि- गौणकालपरिग्रहः । अथवा यथाकालमित्या- देर्यदहर्व्वा वृद्धिरापद्येत इत्यनेनावश्यकनाम- करणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यक इष्टा पूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् । अतएव लघुहारीतेन । तथैव काम्यं यत् कर्म्म वत्सरात् प्रथमादृते इत्यनेन काम्यस्यापकर्षनिमित्तता नास्तीत्युक्तम् । यदि त्वावश्यकवृद्धिनिमिक्षेनाप- कर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्य- न्तरेऽपि कर्त्तव्यमिति । श्राद्धयिवेकोऽप्येवम् । यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप- कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्- पूर्व्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायाद- पकर्षा । “सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः ।” इति शातातपवचने प्रेतक्रियायाः सपिण्डीकर- णान्तत्व प्रतीयते ॥ * ॥ अत्र कृद्धिनिनित्तं विनः सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरिहारमाह विष्णुधर्म्मोत्तरम् । “कृते सपिण्डीकरणे नरः सवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्- क्षणादेव प्रेतत्वपरीहारः । तदर्थ एवापकर्षात् एवञ्चान्यनिमित्तकापकर्षेवृद्धिकालंप्राप्यप्रेतत्व- परीहारः । तत्कालस्य पूर्णसंवत्सरकालतुल्य- त्वात् । “अर्व्वाक् संवत्सराद्वृद्धौ पूर्णे संवत्सरेऽपि वा ये सपिण्डीकृताः प्रेता न तेषान्तु पृथक्क्रिया ॥ इति शातातपवचनात् । इति श्राद्धतत्त्वम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the ceremony usually done on the १२थ् day of one's death; after this the dead person becomes eligible for पार्वण and the गृहस्त becomes eligible for per- forming नान्दिश्राद्ध; in सपिण्डीकरण fresh invocation to the devas; फलकम्:F1: M. १८. १५-17; Vi. III. १३. २६.फलकम्:/F leads up to the cleansing of the pollution. फलकम्:F2: M. १६. ५८.फलकम्:/F
