सामग्री पर जाएँ

सप्तकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तकः, त्रि, (सप्तन् + कन् ।) सप्तानां पूरणः । यथा, -- “योटके सप्तके मेषतुले युग्महयी तथा । सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥” इति ज्योतिस्तत्त्वम् ॥ सप्तसंख्यावशिष्टः । यथा, -- “यक्ष जगृ दरिद्रा च चकासृ शास्तिरेव च । दीधि वेवी च विज्ञेयो यक्षादिः सप्तको गणः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ सप्तसंख्या । सप्त एव सप्तकः स्वार्थे कप्रत्ययः ॥

"https://sa.wiktionary.org/w/index.php?title=सप्तकः&oldid=174377" इत्यस्माद् प्रतिप्राप्तम्