सामग्री पर जाएँ

सप्तच्छदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तच्छदः, पुं, (सप्त सप्तच्छदा यस्य ।) वृक्षविशेषः । छातिम् इति भाषा ॥ (यथा, रघुः । ५ । ४८ । “सप्तच्छदक्षीरकटुप्रवाह- मसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीवयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥”) तत्पर्य्यायः । गुच्छपुष्पः २ युग्मपर्णः ३ मणि- च्छदः ४ बृहत्त्वक् ५ बहुपर्णः ६ शाल्मलि- पत्रकः ७ भदगन्धः ८ गन्धिपर्णः ९ । अस्य गणाः । तिक्तत्वम् । उष्णत्वम् । त्रिदोषघ्रत्वम् । दीपनत्वम् । मदगन्धित्वम् । व्रणरक्तामयकृमिं नाशित्वञ्च । इति राजनिर्घण्ढः ॥ अन्यत् सप्त- पर्णशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=सप्तच्छदः&oldid=174382" इत्यस्माद् प्रतिप्राप्तम्