सप्तजिह्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सप्तजिह्वः, पुं, सप्तजिह्वा काल्यादयो आहुति- ग्रसनार्था यस्य ।) अग्निः । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्संहितायाम् । ७४ । १६ । “सुकृतज्ञतयाङ्गना गतासून् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥”) तस्य सप्तजिह्वानां नामानि यथा, -- “काली कराली च मनोजवा च सुलोहिता चैव सुधूम्रवर्णा । उग्रा प्रदीप्ता च कृपीटयोनेः सप्तैव कीलाः कथिताश्च जिह्वाः ॥” टीकासर्व्वस्वे तु उग्राप्रदीप्तयोः स्थाने स्फुलि- ङ्गिनी विश्वनदाख्येति नामद्वयम् । इत्यमर- टीकासारमुन्दरी ॥ कर्म्मविशेषे तासां नामा- न्तराणि यथा । हिरण्या १ कनका २ रक्ता ३ कृष्णा ४ सुप्रभा ५ बहुरूपा ६ अतिरक्ता ७ एताः सात्त्विक्यो यागकर्म्मणि । काम्यकर्म्मणि तु पद्मरागा १ सुवर्णा २ भद्रलोहिता ३ लोहिता ४ श्वेता ५ धूमिनी ६ करालिका ७ एता राज्यस्यः । क्रूरककर्म्मणि तु । विश्वमूर्त्तिः १ स्फुलिङ्गिनी २ धूम्रवर्णा ३ मनोजवा ४ लोहिता ५ कराला ६ काली ७ एतास्ता- मस्यः ॥ * ॥ एतासामधिष्ठातृदेवता यथा, -- “अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः । राक्षसः सप्तजिह्वानामीरिता अधिदेवताः ॥” एतासां वर्णदिङ्नियमौ यथा । गणेशविम- र्षिण्याम् । “हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता । वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता ॥ तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता । कृष्णा नीलाभ्रसङ्काशा नैरृत्यां दिशि संस्थिता सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता । अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता । तद्दुरूपा यथा ख्याता दक्षिणोत्तरसंस्थिता ॥” इति तन्त्रसारः ॥
