सप्तपर्णः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सप्तपर्णः, पुं, (सप्त सप्त पर्णानि यस्य ।) वृक्ष- विशेषः । छातिम् इति भाषा ॥ (यथा, रघुः । ४ । २३ । “प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥”) तत्पर्य्यायः । विशालत्वक् २ शारदी ३ विषम- च्छदः ४ । इत्यमरः ॥ शारदः ५ देववृक्षः ६ दानगन्धिः ७ शिरोरुजा ८ ग्रहनाशः ९ श्रुति- पर्णः १० गृहाशी ११ ग्रहनाशनः १२ । इति शब्दरत्नावली ॥ गुत्सपुष्पः १३ शक्तिपर्णः १४ सुपर्णकः १५ । इति जटाधरः ॥ बृहत्वक् १६ इति रत्नमाला ॥ अस्य गुणाः । “सप्तपणो ब्रह्मश्लेष्मवातकुष्ठास्रजन्तुजित् । दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः ॥” अन्यत् सप्तच्छदशब्दे द्रष्टव्यम् ॥
