सामग्री पर जाएँ

सप्तपाताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तपातालम्, क्ली, (सप्तानां पातालानां समा- हारः ।) सप्तसंख्यकाधोभुवनम् । यथा, -- “आदित्यरश्मितो देवो रुद्ररूपी जनार्द्दनः । निःसृत्य प्रथमं यातः पातालतलमन्ततः ॥ सप्तपातालसंस्थांस्तु नागगन्धर्व्वराक्षसान् । देवानृषींश्च शेषांश्च जघान वरशूलधृक् ॥” इति कालिकापुराणे २४ अध्यायः ॥ तन्नामानि यथाह भरतः । “अतलं वितलञ्चैव नितलञ्च गभस्तिमत् । महाख्यं सुतलञ्चाग्रं पातालं सप्तमं विदुः ॥”

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तपाताल¦ न॰ समाहारद्विगुः पात्रादि।
“अतलं वितलञ्चैव नितलञ्च गभस्तिमत्। महातलञ्च सुतलं पातालंसप्त कीर्त्तितम्” इत्युक्तेषु सप्तसु भूमेरधःस्थलोकेषु।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तपाताल/ सप्त--पाताल n. the 7 पातालs or regions under the earth (viz. अतल, वित्, सुत्, रसात्, तलात्, महात्and पातालRTL. 102 ) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=सप्तपाताल&oldid=391463" इत्यस्माद् प्रतिप्राप्तम्