सप्तपातालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सप्तपातालम्, क्ली, (सप्तानां पातालानां समा- हारः ।) सप्तसंख्यकाधोभुवनम् । यथा, -- “आदित्यरश्मितो देवो रुद्ररूपी जनार्द्दनः । निःसृत्य प्रथमं यातः पातालतलमन्ततः ॥ सप्तपातालसंस्थांस्तु नागगन्धर्व्वराक्षसान् । देवानृषींश्च शेषांश्च जघान वरशूलधृक् ॥” इति कालिकापुराणे २४ अध्यायः ॥ तन्नामानि यथाह भरतः । “अतलं वितलञ्चैव नितलञ्च गभस्तिमत् । महाख्यं सुतलञ्चाग्रं पातालं सप्तमं विदुः ॥”
