सामग्री पर जाएँ

सप्तर्षय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तर्षयः, पुं, भूम्नि, (सप्त ऋषयः ।) सप्तसंख्यकर्षयः तेषां नामानि यथा । मरीचिः १ अत्रिः २ अङ्गिराः ३ पुलस्त्यः ४ पुलहः ५ क्रतुः ६ वशिष्ठः ७ । इत्यमरः ॥ अपि च । “मप्तर्षिमण्डलं तस्माद्दृश्यते सर्व्वतोपरि । तत्र सप्तर्षयः सन्ति विनियुक्ताः प्रजासृजा ॥ मरीचिरत्निः पुलहः पुलस्त्यः क्रतुरङ्गिराः । वशिष्ठश्च महाभाग ब्रह्मणो मानसाः सुताः ॥ सप्तब्राह्मण इत्येते उच्यन्ते ब्रह्मवादिभिः । संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥ अरुन्धतिस्तथा लज्जा तत्पत्न्यौ लोकमातरः । एतासां तपसा चैतद्धार्य्यते भुवनत्रयम् ॥ सन्ध्यात्रयमुपासीना गायत्त्रीजपतत्पराः । तस्मिन्लोके वसन्त्येते ब्राह्मणाः ब्रह्मवादिनः ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ (प्रतिमन्वन्तरे सप्तर्षयो भिन्ना एवासन् । तद्- वृत्तान्तस्तु ऋषिशब्दे द्रष्टव्यः ॥)

"https://sa.wiktionary.org/w/index.php?title=सप्तर्षय&oldid=174424" इत्यस्माद् प्रतिप्राप्तम्