सामग्री पर जाएँ

सप्तशती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तशती, स्त्री, सप्तानां शतानां समाहारा । इति व्याकरणम् ॥ (“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) सप्तशतिका । सप्तशतश्लोकात्मद्यदेवी- माहात्म्यम् । चण्डीति ख्यातम् । यथा, -- अर्गलं कीलकञ्चादौ पठित्वा कवचं ततः । जपेत् सप्तशतीं चण्डीं क्रम एव शिवोदितः ॥” इत्यर्गलस्तोत्रम् ॥ तथा च नागोजीभट्टः । “तत्राद्ये चरिताध्याये श्लोका अशीतिरुत्तमाः अथ मध्ये चरित्रे तु पञ्चाष्टैकसुसंख्यकाः ॥ त्रयोऽध्यायाश्चतुःसप्तचतुर्व्वेदखवेदकाः । अथोत्तरचरित्रे तु षट्षडग्निश्लोकभाक् । अग्नीसोमाध्यायवती गीता सप्तशती स्मृता ॥”

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तशती¦ स्त्री सप्तानां शतानां समाहारः। मार्कण्डेयपुरा-णान्तर्गतसप्तशतमन्त्रसमुदायरूपे देवीमाहात्म्यबोधके त्रयो-दशाध्यायात्मके ग्रन्थभेदे तन्मन्त्रविभागः चण्डीशब्दे

२८

५५ पृ॰ दृश्यः।
“मध्ये सप्तशतीं जपेदिति” तत्र दर्शितवाक्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तशती¦ f. (-ती) An aggregate of seven hundred verses.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तशती/ सप्त--शती f. 700 MBh.

"https://sa.wiktionary.org/w/index.php?title=सप्तशती&oldid=392002" इत्यस्माद् प्रतिप्राप्तम्