सामग्री पर जाएँ

सप्तसागरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्तसागरः, पुं, (सप्त सगरा इव कुण्डानि यत्र ।) महादानविशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । सप्तसागरकं नाम सर्व्वपापविनाशनम् ॥ पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् । तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः ॥ ऋत्विङ्मण्डपसंभारभूषणाच्छादकादिकम् । कारयेत् सप्त कुण्डानि कनकानि विचक्षणः ॥ प्रादेशमात्राणि तथारत्निमात्राणि वा पुनः । कुर्य्यात् सप्तपलादूर्द्ध्वमासहस्राच्च शक्तितः ॥ संस्थाप्यानि च सर्व्वाणि कृष्णाजिनतिलोपरि । प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः ॥ द्बितीयं पयसा तद्बत् तृतीयं सर्पिषा पुनः । चतुर्थन्तु गुडेनैव दध्ना पञ्चममेव च ॥ षष्ठं शर्करया तद्बत् सप्तमं तीर्थवारिणा । स्थापयेल्लवणस्थन्तु ब्रह्माणं काञ्चनं शुभम् ॥ केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् । भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ॥ शर्करायां न्यसेत् लक्ष्मीं जलमध्ये तु पार्व्वतीम् । सर्व्वेषु सर्व्वरत्नानि धान्यानि च समन्ततः ॥ तुलापुरुषवत् शेषमत्रापि परिकल्पयेत् । ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः । त्रिः प्रदक्षिणमावृत्य मन्त्रानिमानुदीरयेत् ॥ नमो वः सर्व्वसिन्धूनां आधारेभ्यः सनातनाः । जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः ॥ क्षीरोदकाज्यदधिमाधवलावणेक्षु- सारामृतेन भुवनत्रयजीवसंघान् । आनन्दयन्ति वसुभिश्च यतो भवन्त- स्तस्मान्ममाप्यघविघातमलं विदध्वम् ॥ यस्मात् समस्तभुवनेषु भवन्त एव तीर्थामरासुरसुवन्द्यमणिप्रतानम् । पापक्षयाद्धरविलोपनभूषणाय लोकस्य बिभ्रति तदस्तु ममापि लक्ष्मीः ॥ इति ददाति रसाम्बरसंयुतान् शुचिरविस्मयवानिह सागरान् । अमलकाञ्चननवरत्नमयानसौ पदमुपैति हरेरमरावृतः ॥ सकलपापविघातविराजितं पितृपितामहपुत्त्रकलत्रकम् । नरकलोकसमाकुलमप्यलं झटिति नेतुमसौ शिवमन्दिरम् ॥” इति मत्स्यपुराणे महादानानुकीर्त्तने सप्तसागर- प्रादानिको नाम २६१ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सप्तसागरः&oldid=174434" इत्यस्माद् प्रतिप्राप्तम्