सामग्री पर जाएँ

सप्ताश्वः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सप्ताश्वः, पुं, (सप्त अश्वा यस्य ।) सूर्य्यः । अर्क- वृक्षः । इत्यमरः ॥ (क्वचित् वाच्यलिङ्गेऽपि दृश्यते । यथा, ऋग्वेदे । ५ । ४५ । ९ । “आ सूर्य्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया- दीर्घयाथे ॥” “सूर्य्यः सर्व्वस्य प्रेरको देवः सप्ताश्वः सर्पण- स्वभावाश्वोपेतः सप्तसंख्याकाश्वो वा आयातु अस्मदभिमुखमागच्छतु ॥” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=सप्ताश्वः&oldid=174442" इत्यस्माद् प्रतिप्राप्तम्