सभ्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सभ्यः, पुं, (सभायां साधुः । सभा + “सभाया यः ।” ४ । ४ । १०५ । इति यः ।) साधुः । सभासद् । इत्यमरः ॥ (यथा, मनुः । ८ । १० । “सोऽस्य कार्य्याणि संपश्येत् सभ्यैरेव त्रिभि- र्वृतः ॥” अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते । यथा, रघुः । १ । ५५ । “तस्मै सभ्याः सभार्य्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥”) सभिकः । इति जटाधरः ॥
सभ्यः, त्रि, (सभा + यः ।) प्रत्ययितः । इति जटाधरः ॥ सभासम्बन्धी च ॥
