समः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समः, त्रि, (समतीति । सम वैक्लव्ये + पचाद्यच् ।) सर्व्वम् । (अस्मिन्नर्थे सर्व्वनामसंज्ञा भवति । यथा, मुग्धबोधे । “नमः समस्मात् पूर्व्वस्मा अन्तरस्मा अमेध- साम् ॥”) समानम् । इत्यमरः ॥ (अस्मिन्नर्थे सर्व्वनाम- संज्ञा न भवति । यथा, मुग्धबोधे । “समायैषु परायैषां मुक्तयेऽर्थान्तराय च ॥”) साधुः । इति मेदिनी ॥
समः, पुं, (सम वैक्लव्ये + पचाद्यच् ।) राशि- विशेषाणां संज्ञाविशेषः । ते तु राशयः वृष- कर्क्कटकन्यावृश्चिकमकरमीनाः । यथा, -- “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्ब्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ मानस्य प्रकारविशेषः । स तु यदा गीतवाद्ययो- स्तालः गायकस्य हस्तपादादिचालनञ्च एकदा समभावेन पतति तदा भवति । इति सङ्गीत- शास्त्रम् ॥ * ॥ वर्गमूलानयनार्थं अङ्कोपरि- दत्त ऋजुरेखाविशेषः । यथा, -- “त्यक्त्वान्त्याद्विषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते त्यक्त्वा लब्धकृतिं तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् ॥” इत्यादि लीलावली ॥
